SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ २४. आरौिद्रम् ४२५ 1229 ) केनोपायेन घातो भवति तनुमतां कः प्रवीणो ऽत्र हन्ता हन्तुं कस्यानुरागः कतिभिरिह दिनैर्हन्यते जन्तुजातम् । हत्वा पूजां करिष्ये द्विजगुरुमरुतां कीर्तिशान्त्यर्थमित्थं यः स्याद्धिसाभिनन्दो जगति तनुभृतां तद्धि रौद्रं प्रणीतम् ॥७ 1230 ) गगनवनधरित्रीचारिणां देहभाजां दलनदहनबन्धच्छेदघातेषु यत्नम् । दृतिनखकरनेत्रोत्पाटने कौतुकं यत् तदिह गदितमुच्चैश्वेतसां रौद्रमित्थम् ॥८ 1231 ) अस्य घातो जयो ऽन्यस्य समरे जायतामिति । _स्मरत्यङ्गी तदप्याहू रौद्रमध्यात्मवेदिनः ॥९ 1229 ) केनोपायेन-जगति तनुभृतां, हि निश्चितं, तद्रौद्र प्रणीतं कथितम् । तत् किम् । यत् यस्मात् । स इत्यम् अमुना प्रकारेण हिंसाभिनन्दः स्यात् । तनुभृतां प्राणिनां केनोपायेन घातो भवति । अत्र कः प्रवीणः चतुरः हन्ता । कस्य । पुंसः हन्तुम् अनुरागः प्रीतिः । इहाधिकारे कतिभिदिनैः जन्तुजातं प्राणिसमूहः हन्यते । द्विजगुरुमरुतां ब्राह्मणगुरुदेवानां जन्तुजातं हत्वा अहं पूजां करिष्ये । किमर्थम् । पुष्टिशान्त्यर्थम् । इति सूत्रार्थः ।।७।। अथ शरीरिणामङ्गच्छेदेनार्तध्यानमाह। ___1230 ) गगन-इह जगति तनुमतां प्राणिनामुच्चैश्चेतसामित्थममुना प्रकारेण रौद्रं गदितं कथितम् । तत्कियदेतत् । देहभाजां प्राणिनां दलनदहनबन्धच्छेदघातेषु खण्डनज्वालनबन्धनच्छेदनहननेषु यत् यत्तं स्यात् । पुनः । दृतिनखकरनेत्रोत्पाटने यत् कौतुकं चर्मनखहस्तनेत्राणाम् उत्पाटने यत् कौतुकम् । इति सूत्रार्थः ॥८॥ अथ प्रकारान्तरेणार्तध्यानमाह। 1231 ) अस्य घातः-अध्यात्मवेदिनः तदपि रौद्रमाहुः कथयामासुः। यदङ्गी प्राणी इति स्मरति वाञ्छति । इतीति किम् । समरे संग्रामे अस्य घातो जायताम्, अन्यस्य जयो जायताम् । इति सूत्रार्थः ।।९।। अथ प्रकारान्तरेणार्तमाह। प्राणियोंका घात किस उपायसे हो सकता है, यहाँ कौन-सा घातक चतुर है, प्राणघातमें अनुराग किसे रहता है, यह प्राणियोंका समूह यहाँ कितने दिनमें मारा जा सकता है, मैं उसे मारकर कीर्ति और शान्तिके लिए ब्राह्मण, गुरु और वायुदेवकी पूजा करूँगा; इस प्रकार संसारमें प्राणियोंको जो हिंसाकर्ममें आनन्द हुआ करता है उसे रौद्रध्यान कहा जाता है ७ आकाश, जल और पृथिवीके ऊपर संचार करनेवाले प्राणियोंके पीसने, जलाने, बाँधने, काटने और प्राणघात करने में जो प्रयत्न होता है तथा उनका चमड़ा, नख, हाथ और नेत्रोंके उखाड़नेमें जो कुतूहल होता है उसे यहाँ मनस्वी जनोंने रौद्रध्यान कहा है ॥८॥ युद्धमें अमुक प्राणीका घात हो तथा दूसरेकी जीत हो, इस प्रकारसे जो स्मरण किया जाता है उसको भी अध्यात्मके वेत्ता जन रौद्रध्यान कहते है ॥९॥ १. M N LT पुष्टि for कीति । २. All others except P यत्स्यात् । ३. M N यत्नः । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy