SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ २९९ १८. अक्षविषयनिरोधः 891 ) दिवा सूर्यकरैः स्पृष्टं मार्ग लोकातिवाहितम् । दयार्द्रसत्त्वरक्षार्थं शनैः संश्रयतो मुनेः ॥६ 892 ) प्रागेवालोक्य यत्नेन युगमात्राहितेक्षणः । प्रमादरहितस्यास्य समितीर्या प्रकीर्तिता ॥७ 893 ) धूर्तकामुकक्रव्याचोरचार्वाकसेविता । शङ्कासंकेतपापाढ्या त्याज्या भाषा मनीषिभिः ॥८ 894 ) दशदोषविनिर्मुक्तां सूत्रोक्तां साधुसंमताम् । गदतो ऽस्य मुनेर्भाषां स्याद्भाषासमितिः परा ॥९ 890.2 ) सिद्धक्षेत्राणि-त्रिभिः कुलकम् । अस्य मुनेरीर्यासमितिः प्रकीर्तिता कथिता । किं कुर्वतो मुनेः । सिद्धक्षेत्राणि, चैत्यानि जिनबिम्बानि, वन्दितुं व्रजतः अथवा गुर्वाचार्यतपोवृद्धान् सेवितुं व्रजतः । इति सूत्रार्थः। पुनः कीदृशस्य मुनेः । दयार्द्रस्य । पुनः किं कुर्वतो मुनेः । अङ्गिरक्षार्थ जीवरक्षार्थ मार्ग शनैः संश्रयतः आश्रयतः। कोदृशं मार्गम् । लोकातिवाहितं लोकपदमदितम् । दिवा दिवसे सूर्यकरैः स्पृष्टम् । इति द्वितीयश्लोकार्थः । प्रागेव पूर्वमेव । मार्गमालोक्य संश्रयतो यत्नेन युगमात्रहितेक्षणात् चतुर्हस्तप्रमाणस्थापितदृष्टेः सकाशात् । प्रमादरहितस्य । हेतो पञ्चमी। इति सूत्रत्रयार्थः ।।५-७॥ अथ भाषासमितिमाह। 893 ) धूर्तकामुक-मनीषिभिः पण्डितैरेतादृशी भाषा त्याज्या। कोदृशो। धूर्तकामुकक्रव्यादचौरचार्वाकसेविता, धूर्तः कपटी, कामुकः कामो, क्रव्यादः मांसाशो, चौरः प्रसिद्धः, चार्वाको नास्तिकः, एभिः सेविता । पुनः कीदृशी । शङ्का शङ्कारूपा संकेतपापाढ्या अथवा शङ्कायाः सकेतः तस्माज्जातं यत् पापं तेनाढया पूर्णा । इति सूत्रार्थः ।।८॥ अथ पुनस्तत्स्वरूपमाह। 894 ) दशदोष-अस्य मुने षासमितिः स्यात् । परा प्रकृष्टा। कीदृशस्य मुनेः । एवं प्राणियोंके रक्षणार्थ दिनमें सूर्यकिरणोंसे स्पृष्ट व जन-समुदायके आवागमनसे संयुक्त मार्गका आश्रय लेता है तथा सावधानीसे जुएँ प्रमाण मागेको पहिले ही देख लेता है उस प्रमादरोहत मनिके ईर्यासमिति होती है। विशेषार्थ-अभिप्राय यह है कि सिद्धक्षेत्र आदिकी वंदना अथवा गुरुसेवा आदिके निमित्तसे गमनमें प्रवृत्त हुआ मुनि प्रमादसे रहित होकर सावधानीपूर्वक युगप्रमाण (४ हाथ ) मार्गको देखता हुआ जो गमन करता है, इसका नाम ईर्यासमिति है। इस ईर्यासमितिका धारक मुनि अतिशय दयालु होकर प्राणिरक्षामें सदा तत्पर रहता है तथा दिन हो जानेपर जब मार्ग सूर्यकिरणोंसे व्याप्त व प्राणियोंके गमनागमनसे परिपूर्ण हो जाता है तब ही वह उसपरसे गमन करता है ।।५-७|| जिस भाषाकी सेवा ( उपयोग ) धूर्त, कामो, राक्षस, चोर और चार्वाक ( जीवना १. All others except P M N स्पष्टं for स्पृष्टं । २. All others except PL दयार्द्रस्याङ्गिरक्षार्थ । ३. M N Y यत्नेन गन्तू कामस्य लोलया; All others except P T हितक्षिण; T हितेक्षणात् । ४. N क्रव्यादि, T क्रव्यादा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy