________________
१४०
विश्वतत्त्वप्रकाशः
[ ४३
मिति चेन्न । शुक्तिज्ञानं जडम् उत्पत्तिमस्वात् विनाशित्वात् संवेद्यत्वात् घटवदिति शुक्तिज्ञानादेर्जडत्वस्य स्वयमेवाभिधानात् । तथा विवादपदा अविद्या अधिष्ठानयाथात्म्यज्ञानान्न निवर्तते प्रागभावान्यत्वे सति' अनादित्वात् परमात्मस्वरूपवदिति बहूनां प्रयोगाणां सद्भावादिति ।
यदप्यन्यदभ्यधायि - तच्चानिर्वाच्यं रजतम् अधिष्ठानभूतशुक्त्यज्ञानादुपादानकारणभूतादुत्पद्यत इति तदयुक्तम् । रजतस्याज्ञानोपादानकारणकत्वानुपपत्तेः। कुतः वीतं रजतम् अज्ञानोपादानं न भवति दृश्यत्वात् उत्पन्नत्वात् विनाशित्वात् जडत्वात् पटवत्। अज्ञानस्य रजतोपादानकारणत्वानुपपत्तेः । तथा हि । शुक्त्यज्ञानं रजतोपादानं न भवति शुक्त्यज्ञानत्वात् प्रसिद्धशुक्त्यज्ञानवत् । तथा हि । शुक्त्यज्ञानं न रजतोपादानकारणम् अज्ञानत्वात् निषेधत्वात् कुम्भाज्ञानवत् । तथा शुक्त्यज्ञानं रजतोपादानकारणं न भवति अद्रव्यत्वात् अभावत्वात् अन्योन्याभाववत् इति । नन्वज्ञानस्य अभावत्वमसिद्धं तत् कुत इति चेत् अज्ञानं धर्मा अभावो न भवतीति साध्यो धर्मः पदार्थावारकत्वात् पटादिवदिति प्रमाणसद्भावादिति चेन्न । हेतोरसिद्धत्वात् । तत् कथम् । अज्ञानस्य अर्थावारकत्वानुपपत्तेः । तथा हि । अज्ञानमर्थावारकं न भवति वाह्येन्द्रियाविषयत्वात् विज्ञानवत् । तथा अज्ञानमर्थावारकं न भवति प्रतिषेधके
कैसे सम्भव होगी ? अविद्या को अनादि माना है । अतः किसी वस्तु ज्ञान से उसकी निवृत्ति सम्भव नही है - जो अनादि है उसकी निवृत्ति नही होती ।
इस चांदी की उत्पत्ति आधारभूत सीप के अज्ञान रूप उपादान कारण से होती है यह कथन भी ठीक नही । प्रस्तुत चांदी दृश्य है, उत्पन्न तथा विनष्ट होती है और जड है अतः यह अज्ञान से उत्पन्न नही हो सकती । इसी प्रकार सींप का अज्ञान निषेधरूप, अभावात्मक वस्तु है, द्रव्य नहीं, अतः यह किसी वस्तु का उपादान कारण नही हो सकता । अज्ञान पदार्थ का आच्छादक है अतः वह अभावात्मक नही यह कहना भी ठीक नही । अज्ञान यदि पदार्थ का आच्छादक होता तो
१ मायावादिना । २ प्रागभावः अनादिरस्ति परन्तु सान्तोऽस्ति अत उक्तं प्रागभावान्यत्वे सति । ३ अविद्या तु अनादिरूपा । ४ आच्छादकत्वात् । ५ आश्रयासिद्धो हेतुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org