________________
१६९
प्रतिपातादि स्थानोंका स्वामित्वनिरूपण सं०टी०-प्रतिपातप्रतिपद्यमानस्थानद्विक यथासंख्यं पतच्चरसमये संयमग्रहणप्रथमसमये च भवति । अनुभयस्थानं तयोः प्रतिपातस्थानप्रतिपद्यमानस्थानयोर्मध्ये उपरितनगुणस्थानाभिमुखे च भवति । एतत्सर्वं यथा देशसंयमे सविस्तरं प्रतिपादितं तथात्रापि ग्राह्यम् । प्रतिपातादित्रितयं स्वस्वजघन्यस्थानात् स्वस्वोत्कृष्टस्थानपर्यन्तमपर्युपर्यसंख्यातलोकगुणितक्रमाण्यन्तरेषु षट्स्वपि प्रत्येकमसंख्यातलोकमात्राणि षट्स्थानानि देशसंयमवज्ज्ञातव्यानि। तत्र प्रतिपातस्थानेषु मिथ्यात्वासंयमदेशसंयमाभिमुखभेदभिन्नेषु जघन्यानि तीव्रसंक्लिष्टस्य चरमसमये भवन्ति । उत्कृष्टानि तत्प्रायोग्यमन्दसंक्लिष्टस्य भवन्ति । तथा प्रतिपद्यमानजघन्यस्थानद्वयमार्यम्लेच्छस्वामिकं मिथ्यादृष्टिचरस्य भवति, तदुत्कृष्टस्यानयुगलमपि देशसंयतचरस्य भवति प्रतिपद्यमानस्थानानामुपर्यनुभयस्थानानि सामायिकच्छे दोपस्थापनसंयमद्वयसंबन्धीनि भवन्ति । तत्संयमद्वयस्य जघन्योत्कृष्टस्थानयोद्धयोर्मध्ये परिहारविशुद्धिसंयमस्थानानि भवन्ति । परिहारविशुद्धिसंयमस्य जघन्यस्थानं संक्लेशवशात्सामायिकछ दोपस्थापनद्वये पतिष्यतस्तच्चरमसमये भवति । तस्य परिहारविशुद्धिसंयमस्योत्कृष्टस्थानं स्वस्मिन्नेव सर्वविशुद्धस्याप्रमत्तस्यैकान्तवृद्धिचरमसमये भवति । सामायिकच्छ दोपस्थापनद्वयस्य मिथ्यात्वाभिमुखं जघन्यस्थानमोघजघन्यस्थानं सर्वसंयमसामान्यजघन्यस्थानं भवतीत्यर्थः । तयोरुत्कृष्टस्थानमनिवृत्तिकरणक्षपकचरम समये भवति । सूक्ष्मसाम्परायसंयमस्य जघन्यस्थानमुपशमश्रेण्यामवरोहणेऽनिवृत्तकरणस्योपरि पतिष्यतः सूक्ष्मसाम्परायोपशमकस्य चरमसमये भवति । तस्योत्कृष्टस्थानं क्षीणकषायगुणस्थानाभिमुखस्य सूक्ष्मसाम्परायक्षपकस्य चरमसमये भवति । यथाख्यातचारित्रं सर्वसंयमसामान्योत्कृष्टं तस्य जघन्यादिविकल्पाभावात् । प्रतिपातप्रतिपद्यमानस्थानानि सर्वाण्यपि सामायिकछ दोपस्थापनर्सयमद्वयप्रतिबद्धान्येव नेतरसंयमसंबन्धीनि अनुभयस्थानानि पुनः सामायिकादिसर्वसंयमसंबन्धीनि संभवति । मिथ्यादृष्टयसंयतदेशसंयतानां सकलसंयमग्रहणकाले सामायिकछ दोपस्थापनसंयमयोरेव प्रथमत: प्रतिपत्तिनियमात् । संयमसामान्यापेक्षया प्रतिपद्यमानस्थानानि संयमग्रहणप्रथमसमयवर्तीनि सामायिकछ दोपस्थापनप्रतिबद्धान्येव । तथा सामायिकछ दोपस्थापनसंयमाभ्यां प्रच्यवमानस्यैव मिथ्यात्वासंयमदेशसंयमेषु प्रतिपातः संभवति, न परिहारविशुद्धयादिसंयमेभ्यः प्रच्यवमानस्य तत्प्रतिपातः परिहारविशुद्धिसूक्ष्मसाम्परायसंयमाभ्यां प्रच्यवमानस्य सामायिकद्विके यथाख्यातचारित्रात्प्रच्यवमानस्य सूक्ष्मसाम्परायसंयमेपि च प्रतिपातस्य सिद्धान्ते प्रतिपादितत्वात् ।
ननु भवक्षयादुपशमश्रेण्यां मृतस्य सूक्ष्मसाम्पराययथाख्यातचारित्रयोदेवासंयते प्रतिपातोऽस्ति, अतः कथमसंयतप्रतिपाताभावः ? इति चेत वयमिमे बमहे-संयमघातिकषायोदयवशोत्पन्नसंक्लेशवशेन गुणस्थानाद्वा क्षयेण वाधस्तनगुणस्थानेषु प्रतिपातस्यात्र विवक्षित्वात् । भवक्षयहेतुकः प्रतिपातः पुनरत्राविवक्षितः। तत्प्रतिपातविवक्षायां पुनर्देवासंयमाभिमुखतव, न मिथ्यात्वदेशसंयमाभिमुखता, बद्धदेवायुष एव सकलसंयमिनः संयमकाले मृतस्य देवगतिं मुक्त्वान्यत्र गतावनुत्पादात् । देवगतौ च मिथ्यादृष्टिष्वनुत्पादात् देशसंयमस्य तत्राभावाच्च । तदेवं सामायिकादिपञ्चप्रकारसकलसंयमलब्धिस्वरूपं प्रासङ्गिकं मुख्यतस्तु प्रमत्ताप्रमत्तगुणस्थानवतिक्षायोपशमिकसकलसंयमलब्धिस्वरूपं च सविस्तरं प्ररूपितम् ।। १९९-२०४॥
उन परिणाम आदि स्थानोंका विशेष कथन
सं० चं०-संयमते पडतै अंत समयविषै अर संयमकौं ग्रहते प्रथम समयविर्षे क्रमतें प्रतिपात अर प्रतिपद्यमान ए दोय स्थान हैं । बहुरि इनके बीचि वा ऊपरिके गुणस्थानकौं सन्मुख होते अनुभय स्थान हो है सो देश संयतवत् इहां भी जानना ॥ १९८॥
सं० चं०-प्रतिपात आदि तीन प्रकार स्थान अपने अपने जघन्यतै उत्कृष्ट पर्यंत उपरि उपरि असंख्यातलोक गुणा क्रम लीएं हैं। तिनके छही विर्षे प्रत्येक असंख्यात लोकमात्र वार षट्स्थानवृद्धि देशसंयतवत जाननी ॥ १९९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org