SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १२८ लब्धिसार सं० टी०-उदीरणाद्रव्यस्य प्रमाणं तन्निक्षेपविधानं च प्रदर्शयितुं सूत्रत्रयमाह--अत्र कृतकृत्यवेदककालमात्रस्थितिषु प्रविष्टस्य किंचिन्न्यूनद्वयर्धगुणहानिगुणितसमयप्रबद्धमात्रस्यापकर्षणभागहारेण खण्डितस्यैकभागमुदयावलिबाह्यनिषेकेभ्यो गृहीत्वा पुनः पल्यासंख्यातभागेन खण्डयित्वा तदेकभागमुदयप्रथमसमयादारभ्य तच्चरमसमयपर्यंत प्रतिनिषेकमसंख्यातगुणितक्रमेण प्रक्षेपयोगेत्यादिना विधिना निक्षिपेत् । पुनस्तद्बहुभागद्रव्यमुदयावलिन्यूनोपरितनस्थितावन्तर्मुहूर्तप्रमाणायामुपरि समयाधिकामतिस्थापनावलि वर्जयित्वा 'अद्धाणेण सव्वधणे' इत्यादिविधिना विशेषहीनक्रमेण निक्षिपेत् । एवं द्वितीयादिसमयेष्वपि । यद्यपि विशुद्धिसंक्लेशपरावृत्तिवशेन कृतकृत्यवेदकस्य शुभाशुभलेश्यापरिणामसंक्रमो भवति तथापि प्राक्तनकरणत्रयविशुद्धिसंस्कारवशात् प्रतिसमयमसंख्यातगुणितक्रमेण द्रव्यमपकृष्य उदीरणां कुरुते कृतकृत्यवेदकसम्यग्दृष्टिः । गुणश्रेण्यायाम विना केवलमदयावल्यामेव किंचिद्रव्यं प्रवेश्यावशिष्टस्योपरितनस्थितौ निक्षपणमुदीरणा, इदमेव मनस्यवधार्याचार्य: णत्थि गुणसेढी इत्युदीरणलक्षणमुदीरितम् । एवं प्रतिसमयमसंख्यातगुणितक्रमेण द्रव्यमपकृष्य निक्षेपे समयाधिकावल्युपरितननिषेकादपकृष्टद्रव्यस्य बहुवारमसंख्यातगुणितस्य तदानींतनोदयनिषेकाद्धीनाधिकभावशङ्कायां परिहार उच्यते--यद्यप्यसंख्येयसमयप्रबद्धानामुदीरणा चरमपूर्वपूर्वोदीरणाद्रव्यादसंख्यातगुणितद्रव्या तथापि चरमफालिगणश्रण्यायातोदयनिषेकद्रव्यादसंख्यातैकभागमात्रमेवोदीरणाद्रव्यमुदयनिषेके दीयमानमकर्षणभागहारेण खंडितसर्वद्रव्यस्य पल्यासंख्यातभागेन भक्तस्यैकभागमात्रत्वात उदयनिषेकस्य च सर्वद्रव्यस्यासंख्यातपल्यप्रथममूलभक्तस्यैकभागमात्रत्वात् । किं पुनः कृतकृत्यवेदकप्रथमादिसमयेषु उदीरणाद्रव्यं तत्र तत्रोदयावलिनिषेकेषु दीयमानं तत्तदुयावलिनिषेकसत्त्वद्रव्यादसंख्यात गुणहीनमित्युच्यते। कृतकृत्यवेदककालस्य समयाधिकावलिमात्रेऽवशिष्टे सर्वाग्रनिषेकात्पूर्वपूर्वापकृष्टद्रव्यादसंख्यातगुणितद्रव्यमपकृष्य समयोनावल्याः द्वित्रिभागसमया धिकावलिमात्रेऽवशिष्टे सर्वाग्रनिषेकात्पूर्वपूर्वापकृष्टद्रव्यादसंख्यातगुणितद्रव्यमपकृष्य समयोनावल्याः द्वित्रिभागमपि संस्थाप्य तदधस्तने तत्रिभागे रूपाधिके उदयसमयात्प्रभृति इदानीमपकृष्टद्रव्यस्य पल्यासंख्यातभागभक्तस्यकभागं तद्योग्यासंख्यातसमयपर्यन्तमसंख्यातगुणितक्रमेण दत्त्वावशिष्टबहुभागद्रव्यं तथावलित्रिभागसमयेषु अतिस्थापनाधस्तनसमयं मुक्त्वा सर्वत्र विशेषहीनक्रमेण निक्षिपेत् । एषैवोत्कृष्टोदीरणा। एवमनुभागस्यानुसमयमनन्तगणितापवर्तनेन कर्मप्रदेशानां प्रतिसमयमसंख्यातगुणितोदीरणया च कृतकृत्यवेदकसम्यग्ष्टिः सम्यक्त्वप्रकृतिस्थितिमन्तमुहूर्तायामामुच्छिष्टावलि मुक्त्वा सर्वा प्रकृतिस्थित्यनुभागप्रदेशविनाशपूर्वकं उदयमुखेन गालयित्वा तदनन्तरसमये उदीरणारहितं केवलमनुभागसमयापवर्तनेनैव प्राक्तनापवर्तनक्रमविलक्षणनोदयप्रथमसमयात्प्रभृति प्रतिसमयमनन्तगुणितक्रमेण प्रवर्तमानेन प्रकृतिस्थित्यनुभागप्रदेशविनाशपूर्वकं प्रतिसमयमेकैकनिषेकं गालयित्वा तदनन्तरसमये क्षायिकसम्यग्दृष्टिर्जायते जीवः ॥ १४९-१५१ ।। सं० चं०-कृतकृत्य वेदक कालमात्र सम्यक्त्वमोहनीके निषेक हैं तिनिका द्रव्य किंचिदून द्वयर्धगुणहानि गुणित समयप्रबद्ध प्रमाण है ताकौं अपकर्षण भागहारका भाग देइ तहां एक भाग प्रमाण द्रव्यकौं जे उदयावलीतै बाह्य उपरिवर्ती निषेक हैं सो तिनतै ग्रहिकरि ताकौं पल्यका असंख्यातवाँ भागका भाग देइ तहां एक भाग तौ उदयावलीविर्षे 'प्रक्षेपयोगोद्धत' इत्यादि विधान करि प्रथम समयतें लगाय अन्त निषेकपर्यंत असंख्यात गुणा क्रम लीए दीजिए है। बहुरि अवशेष बहुभागमात्र द्रव्य तिस उदयावलीतै उपरिवर्ती जो अवशेष अन्तमुहूर्तमात्र उपरितन स्थिति तहां अन्तविषै समय अधिक अतिस्थापनावली छोडि सर्व निषेकनिविषै 'अद्धाणेण सव्वधणे' इत्यादि विधानकरि विशेष हीन क्रम लीएं निक्ष पण करै। ऐसे उपरितन स्थितिका द्रव्य जो उदयावलीविर्षे दीजिए है ताका नाम उदीरणा है ॥ १४९ ॥ __ सं० चं०-यद्यपि कृतकृत्य वेदक सम्यग्दृष्टी लेश्याकी पटलनितै संक्लेश संयुक्त होइ वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy