SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ THE PATH OF NIRVANA OR LIBERATION 141 The Jain saint Nâgasena says as follows in his Tattvânusâsana about wrong belief and bondage : तापत्रयोपतप्तेभ्यो भव्येभ्यः शिवशर्मणे। .. तत्त्वं हेयमुपादेयमिति द्वेधाभ्यधादसौ ॥ ३ ॥ बंधो निबंधनं चास्य हेयमित्युपदर्शितं । हेयं स्यादुःखसुखयोर्यस्माद्वीजमिदं द्वयं ॥ ४॥ मोक्षस्तत्कारणं चैतदुपादेयमुदाहृतं । उपादेयं सुखं यस्मादस्मादाविर्भविष्यति ॥५॥ तत्र बंधः सहेतु भ्यो यः संश्लेषः परस्परं । जीवकर्मप्रदेशानां स प्रसिद्धश्चतुर्विधः ॥ ६॥ बंधस्य कार्यः संसारः सर्वदुःखप्रदोगिनां । द्रव्यक्षेत्रादिभेदेन स चानेकविधः स्मृतः ॥ ७ ॥ स्युर्मिथ्यादर्शनशानचारित्राणि समासतः। बंधस्य हेतवोऽन्यस्तु त्रयाणामेव विस्तरः ॥ ८॥ अन्यथावस्थितेष्वर्थेष्वन्यथैव रुचिर्नृणां । दृष्टिमोहोदयान्मोहो मिथ्यादर्शनमुच्यते ॥९॥ ज्ञानावृत्युदयादर्थेष्वन्यथाधिगमो भ्रमः । अज्ञानं संशयश्चेति मिथ्याज्ञानमिह त्रिधा ॥ १०॥ वृत्तिमोहोदयाजन्तोः कषायबशवर्तिनः । योगप्रवृत्तिरशुभा मिथ्याचारित्रमूचिरे ॥ ११ ॥ बंधहेतुषु सर्वेषु मोहश्च प्राक् प्रकीर्तितः। मिथ्याशानं तु तस्यैव सचिवत्वमशिश्रियन् ॥ १२ ॥ ममाहंकारनामानौ सेनान्यौ तौ च तत्सुतौ । यदायत्तः सुदुर्भेदो मोहव्यूहः प्रवर्त्तते ॥१३॥ शश्वदनात्मीयषु, स्वतनुप्रमुखेषु कर्मजनितेषु । आत्मीयाभिनिवेशो ममकारो मम यथा देहः ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001598
Book TitleComparative Study of Jainism and Buddhism
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherZZZ Unknown
Publication Year1974
Total Pages350
LanguageEnglish
ClassificationBook_English, Religion, & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy