________________
सकलनयविधिज्ञो भावतो देव-साधुप्रतिदिनमतिभक्तो दानशीलो दयालुः । विदितजिनमतोऽलं धर्मकर्मानुरक्तो
लहर इति सुपुत्रस्तस्य जातः पवित्रः ।।3।। प्रावा (वा) जीज्जितदर्पितारिनिचयो यो जैनमार्गे परं (र-) मार्हत्यं सुविशुद्धमन्वययशप्राप्त समारात्य (ध्य) च । श्रीमन्मूलनरेन्द्रसन्निधिसुधानिस्यन्दसंसेकितप्रज्ञापात्रमुदात्तदानचरितस्तत्सूनुरासीद (द्व) रः ।।4।। निजकुलकमलदिवाकरकल्पः सकलार्थिसार्थकल्पतरुः ।
श्रीमद्वीरमहत्तम इति यः ख्यातः क्षमावलये ।।5।। श्रीमन्ने ढो धीधनो धीरचेता आसीन्मंत्री जैनधर्मैकनिष्ठः । आद्यः पुत्रस्तस्य मानी महेच्छः त्यागी भोगी बन्धुपद्माकरेन्दुः ।।6।।
द्वितीयको द्वैतमतावलंबी दण्डाधिपः श्रीविमलो बभूव । येनेदमुच्चैर्भवसिन्धुसेतुकल्पं विनिर्मापितमत्र वेश्म 170 धर्माराममतिविवेकलसतिगाम्भीर्यपाथोनिधिः दीनानाथपरोपकारकरणव्यापारबद्धादतिः । जातो लालिगसंज्ञको (5)तिनिपुणः सद्धर्मलोक स्थितो रूपन्यक्कृतपञ्चबाणमहिमा श्रीनेढमंत्र्यंगजः ।।8।। महिदुक इति धन्यस्तत्सुतश्चारुमूर्तिः अखिलजनमनोज्ञं शीलशालीनवृत्तिः । जिन-मुनिपदपद्माराधनध्वस्तपापः प्रचितगुरुगुणौघः प्रादुरासीदमात्यः ।।9।। तत्पुत्रौ संजातौ पुष्पदन्ताविवामलौ ।
हेम-दशरथत्वेन विख्यातौ नयशालिनौ ।।10।। तत्राद्यो [s] तिविवेकधामसुशमी मौनीन्द्रधर्मा...... ते (गमे ?) जीवाजीवविचारसारनिपुणश्चारित्रिसेवापरः। पापानुष्ठितिभीरुरास (श्रि) तजनत्राणोद्यत: सर्वदा सारासारविवेचनातिनिपुणप्रज्ञावदाताशयः ॥11॥ गम्भीरः सरलः क्षमी दमयुतो दाक्षिण्यपाथोनिधिः धीमान् धार्मिकसम्मतः प्रतिदिनं सद्धर्मकर्मोद्यतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org