SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ पद्मसुन्दरविरचितं विकल्पगहनभ्रान्तश्चतुर्गतिपथस्थितः । रागद्वेषवशः पान्थस्तृष्णावान् मुह्यते न किम् ॥११०॥ तारतरामलमोहविलासः शुद्धतमोद्धतबोधविशुद्धः । मज्जितमूर्तिनिरञ्जनपुञ्जः कस्य चमत्कुरुते न हि चेतः ॥१११॥ उद्धतमोहतमोहननार्कः किल्बिषभोगिनियन्त्रणमन्त्रः । सल्पितकल्पितजल्पविकल्पः कस्य चमत्कुरुते न हि चेतः ॥११२॥ चिद्गतरङ्गतरङ्गितरङ्गः शुद्धसुधारसपूरसमुद्रः। ज्ञानघनौघघनाघनकल्पः कस्य चमत्कुरुते न हि चेतः ॥११३।। सर्व कर्मोशन्ति सर्वज्ञदेवा बन्धस्यैतत् साधनं साधु नैव । तस्मात् सर्वं तन्निषिद्ध विरुद्धं मोक्षोपाये कारणं ज्ञानमेव ॥११॥ मग्नास्ते कर्ममुढाशयविवशलसभेदविज्ञानहीना मग्नास्ते ज्ञानिनोऽपि स्वयमहमिकया च्छन्दमन्दोधमा ये । ज्ञानी भूत्वा समन्तादुपरि परिगता विश्वविश्वस्य साक्षात् कर्मव्यासात् प्रमादाचरणविरहिताः सन्ततं ते तरन्ति ॥११५॥ पुण्यापुण्यमिति द्वयं च सदसद्वेषं हि कर्मैव तद् न्यक्कारात् किल कर्मणो निगदितो मोक्षो मुमुक्षोरिह । तन्नैष्कर्म्यविधिप्रधावितनिजाधीनप्रधानात्मज ज्ञानं मोक्षमुपानयत्यलमलं वैकल्पिकैः कर्मभिः ॥११६॥ ११४%आत्म श्लोक १०४ (पृ २२०) । ११५=आत्म श्लोक २ (पृ० २३३)। ११६=आत्म श्लोक १०५ (पृ० २२०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy