________________
२९.
ज्ञानचन्द्रोदयनाटकम् । शुद्धद्रव्यनिरूपणार्पितदृशा प्रत्यात्मवेद्यं त्रय ज्ञानं कर्म च तत्फलं परिणतिः सा चेतनैवात्मनः । द्रव्यान्तःप्रलयात् त्रयस्य परतोऽसम्पर्कतश्चिन्मयोभूयोन्मेषनिमेषदोषविकलः संक्रीडते स्वेच्छया ॥९९।। य कर्तारमथो मिथोऽपि करणं कर्मापि तद्वत् फलं निश्चित्यैकमिवात्मनाऽऽत्मनि मुनिः स्वात्मानमात्मीयति । नान्यद् द्रव्यमुपाददाति निरतः स्वद्रव्यमव्यञ्जितं ।
चान्यैः पुण्यमनन्यजन्यमहिमस्वं धाम संधावति ॥१०॥ अथैकपात्रीभूय चित् प्रविशति ।
अहह ! विविधबन्धोपाधिनिर्वाधितात्मा स्फटिकमणिरिवान्यै रञ्जितस्वात्मवृत्तिः । अहमिह न च कस्य स्यान्ममान्यो न कश्चिद् यदहमहमिहैको निर्विकारोऽहमस्मि ॥१०१॥ स्वयमयमहमेकः स स्वतन्त्रोऽस्मि कर्ता करणमहमिहाऽऽसं चित्स्वभावेन तेन । चिदनुगपरिणामं प्राप्य कर्माऽहमासं तदहमह(ध)मदेहव्यूहमोहाभ्युपायः ॥१०२॥ न च खलु मम सौख्यं तद्विपर्यस्तदुःखं प्रकृतिजनितमेतद् द्वैतमद्वैतरूपः । स्वयमियमनुभूतिश्चिच्चमत्कारिता या । प्रतिपतति निजान्तःपातिनी हादिनी च ॥१०३।। इदानीमुन्मज्जत्सहजनिजरङ्गप्रसरणादपाकृत्याकृत्यप्रकृतिविकृतं रञ्जनमसत् । स्वभावाविर्भावादनुभवति रोधाय परितः परद्रव्याकाङ्क्षा क्षणमिदमभिक्षालय चिरम् ।।१०४॥ विरोधिबन्धविध्वंसविस्फुरच्छुद्धबोधतः ।
शुद्धभावोऽस्मि चिद्रूपः परमात्मा निरञ्जनः ।।१०५।। ९९-तदी २.३३ । १००-प्रसा २.३४, तदी २.३४ । १०१-११२ = तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org