________________
ज्ञानचन्द्रोदयनाटकम् । द्रव्यं तद् व्ययमानमत्र विगतप्राचीनयाऽवस्थया व्युत्पादेन तदुत्तरप्रगुणया व्युत्पद्यमानं ततः । ध्रौव्यालम्बितमीक्ष्यतेऽभ्युपगतस्वावस्थितावस्थया न स्वारूप्यमिदं जहाति निजकं नोज्झत्यवस्थान्तरम् ॥७॥ उपात्तमलिनावस्थं निर्मलावस्थयोदितम् । उत्तरीयमिव द्रव्यं तेनोत्पादेन लक्ष्यते ॥८॥ मलिनावस्थया तच्च व्ययमानं व्ययेन तत् । ध्रौव्येणावस्थितावस्थमभिन्नं स्वस्वरूपतः ॥९॥ तथाविधस्वरूपस्यावस्थायामवलम्बते । स्वस्वरूपमभेदेन स्वरूपेणोत्तरीयवत् ॥१०॥ गुणैर्विस्तारसामान्येतररूपात्मकैः सह । स्वरूपभेदमादत्ते द्रयान्वयविवर्तिभिः ॥११॥ तदायतविशेषात्मरूपैः पर्यायवर्तिभिः । तन्तुभिर्लभ्यते तद्वदुत्तरीयमिदं तथा ॥१२॥ स्वरूपास्तित्ववद्भावः स्वभावोऽनन्यसाधनात् । अनाद्यनन्तताहेतुरूपवृत्त्या विवर्तनात् ॥१३॥ विभावधर्मवैधात् स्वस्वभावविभावनात् । नानात्वेऽपि प्रदेशानां भेदाभावात् सहैकता ॥१४॥ तद्रव्यगुणपर्यायभेदानां भिन्नता न हि । परद्रव्यान्तराणीव सापेक्षवात् परस्परम् ॥१५॥ तेषामस्तित्वमस्त्येकमेव तत् कलधौतवत् । द्रव्यादिना पृथग् द्रव्याल्लभ्यन्ते न गुणादयः ॥१६॥ पीतादिगुणरूपैस्तु पर्यायैः कुण्डलादिभिः । काञ्चनस्य यदास्तित्वं स स्वभावः प्रकाशितः ॥१७॥ तत्स्वरूपमुपादाय तैरस्तित्वमुदीरितम् ।
तेभ्योऽपार्थक्यरूपस्य द्रव्यस्य कनकस्य च ॥१८॥ ६-१२ = तदी २.३ । १३-२२= तदी २.४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org