SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । अथ विशेषसंविदनुभूतिः प्रविशति । सो द्रव्यमयः पदार्थ इह यत् तेनाभिनिर्वर्तितस्तव्याणि गुणात्मकानि युगपद् द्वन्द्वात्मकाः पर्ययाः । द्वेधा तेऽपि समानतत्परतर्जातीयमेदैर्गुणास्तत्स्वाभाविकवृद्धिहानिपतिता वैभाविकाश्चापरे ॥१॥ तन्तुत्वेन पटः समानसमुदायत्वेन निर्वर्तितस्तद्वत् तन्तुगुणात्मता पृथगुपालम्भोपपत्तिध्रुवम् । पर्यायो गुरुलध्वनन्यगुणव[दद्वारेण रूपादिभिः साधीयानिह तारतम्यविविधः पक्षः समाचक्ष्यताम् ॥२॥ ये चैकान्तनिरर्गलोच्छलदहङ्कारप्रकारभ्रमभ्रान्तास्तन्ममकारतामुपगताः क्रोडीकृताशक्तयः । प्रच्युत्यात्मविदो ममैतदसहाहङ्कारकारागृहे बद्धा ज्ञानविभुप्रसादभवनाभावाद् विमुक्तिः कुतः ॥३॥ येऽनेकान्तविजृम्भितप्रकटितप्रव्यक्तिशक्तिद्रुताहङ्कारादिपरिग्रहग्रहसमावेश समाशंसते । ते स्वाभाविकभिन्नसमविलसदरत्नप्रदोपस्फुरज्योतीरूपमिवैकमभ्युपगताः संशेरते नापरे ॥४॥ रागद्वेषोन्मेषनिःशेषदोषभ्रंशादंशायातशुद्धप्रकाशः । कासांचके चक्रमाक्रम्य कर्मप्रालेयस्य ज्ञानघने निलीय ॥५॥ अनारब्धास्तब्धप्रकृतिविकृतिभ्रंशपरतामिवादाय द्रव्यं व्ययजननवद् ध्रौव्यकलितम् । गुणैः पर्यायैर्वा पृथगथ विशुद्धं परिलस स्वरूपाभेदेन प्रतिफलति चास्तित्वविवृतम् ॥६॥ १-२ = तदी २.१ । ३-५ = तदी २.२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy