________________
ज्ञानचन्द्रोदयनाटकम् । प्रोदभूतं स्वयमुच्छलद्विमलविज्ञानार्चिरभ्यर्चित शश्वद्भास्वरयोगपद्यविल सद्बोधात् समन्तस्थितम् । द्रव्यानन्त्यबुभुत्सयाऽभ्युपगतं दुष्कर्मनिर्मूलनादिव्यात्यन्तिकसौख्य मुख्यममलं प्रत्यक्षमालक्ष्यताम् ॥२२॥ ज्वलविमलकेवलग्लपितलोकलोकोत्तर-- स्फुरद्वरनिरङ्कुशानपरशक्त्यभिव्यक्तिभिः । प्रलीनमलिनीलिमप्रथमरोहमोहोदया-- दनाकुलमवस्थितं त्विदमुदारमुज्जृम्भते ॥२३॥ अनादिनिधनं धनं प्रशमसङ्गनिर्वेदिनामखेदमनिवेदितं स्वरसरङ्गसङ्गस्फुटम् । वितर्कतरकर्कशस्वपरखेदभेदभ्रमप्रमाथि निरुपाधि यज्जयति निष्प्रकम्पं महः ॥२४॥ क्वचिद् विशददर्शनं क्वचिदनन्तबोधात्मकं क्वचिल्लसति तद्वयं क्वचिदतदद्वयं चाद्वयम् । क्वचिच्चिदचितश्चमच्चरिकरीति चित्रं पृथक क्वचित् प्रकृतिकृन्तने निशितखड्गधारं कचित् ॥२५॥ सघनघनघातिकर्मप्रतिघातोद्भूतसहजसुखविमुखः । परमार्थसुस्वमजानन् न श्रद्धत्ते परं सौख्यम् ॥२६॥ करणोपपन्न मिदमक्षसुखं ननु दुःखमेव गदितं कुशलैः । समभिद्रुताः करणजैः सहजैविषयेषु रमति मोहवशात् ॥२७॥ पिपासित इतस्ततो मरुमरीचिवोचषु चेत् परिभ्रमति विभ्रमी भ्रमणविभ्रमभ्रामितः । पिबेग्जलमतस्ततस्ततरतोपभोगोद्रवः
कथं स खलु तृप्यति स्मरसुखैविपाकोदितैः ॥२८॥ २२-प्रसा १.५९, तदो १.५९ । २३ तदी १.६० । २६-प्रसा १.६२ । ........ २७ असा १.६३ । २८=तदी १.७५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org