________________
ज्ञानचन्द्रोदयनाटकम् । स्वयमुद्धतधामचित्समुद्रे प्लवमानोऽपि समन्ततश्चकास्ति । ननु सर्वमिवानुविद्धमंशैविषमविचित्रमखर्वसर्वमूर्तिः ॥८॥ युगपज्जगदप्यसङ्ख्यसङ्ख्यैः समवच्छिन्नमनन्तधर्मभेदैः। ददृशे सुदृशा स्वयं च तेभ्यः प्रविविक्तेन न वस्तु तेन तेने ॥९॥ अनुसमयमनन्तधामधामाद्भुतपर्यायनिबन्धनात्मबोधः । परिलसति परप्रकाशकर्ता न तमभ्येति परस्परावगुण्ठः ॥१०॥ क्रमगतमथवा चेज्ज्ञानमर्थान् प्रतीत्य स्फुरति तदवबोधादन्यबोधे विलम्बः । सदसदिव विकल्पज्ञानमस्यापि न स्यात् सकलगतमनन्तं क्षायिकं न क्षमेत ॥११॥ युगपदखिललोकालोकभावानुभूत. प्रभवदनुभविष्यत्सर्वभावावभासि । सकलमलकलङ्कातङ्कपङ्कप्रणाशात् प्रकटितसकलार्थव्यक्तिरूपं चकास्ति ॥१२॥ तदेव सकलज्ञानमविसंवादि सर्वगम् । त्रैकालिकमिहाध्यक्ष प्रत्यक्षमवलम्बते ॥१३॥ परिणमति न चार्थान् नाददाति स्वयं वा त्यजति न विदधाति ज्ञप्तिविस्तारपोतान् । पृथगथ विमलार्बोिधशुद्धोपलम्भा
दनुसरति न बन्धं लुप्तनिःशेषकर्मा ॥१४॥ ९-तदी १.४८ । १०=तदी १.४८-४९ । ११-प्रसा १.५०, तदी १.५० । १२=तदी १.५१ । १४-प्रसा १.५२, तदी १.५२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org