________________
काव्यकल्पलतावृत्तिः - परिशिष्ट
गङ्गायामिति सिद्धेत्यादि -- सिद्धनिम्नगा, स्वर्गनदी, स्वर्गितटिनी, नभोनदी, सिद्धधुनी, स्वर्गापगा, त्रिदशतरङ्गिणी, व्योमश्र (स्रोतस्विनीत्यादयः । जहोरिति - जह्न पुत्री, जाह्नवी, जह्न भवेत्यादयः । अत्राश्वः सुराश्रेभ्यो वापी, स्वर्वापी, सुरवापी अभ्रवापीत्यादयः ॥छ ||
कालिन्द्यामिति कालिन्दाद्रेरियं कालिन्दी कलिन्दसुता कलिन्दतन येत्यादयः । अर्कादिति - असुता, स्यांङ्गजेत्यादय: । कृतान्तेति कृतान्तभगिनी, यमस्वसेत्यादयः ॥ छ ॥
रेवायामिति किमेकलेति मे कलाद्रेर्जातत्वान्मे कलाद्विजा, मेकलकन्यापीत्यादयाः ॥ छ ||
चन्द्रेभ्य इति --- चन्द्रतनया, इन्दुजा सोमसुतेत्यादयः ॥ छ ॥
ताप्यामिति तपनेति--तपनतनूद्भवा, तपनात्मजा, तपननन्दिनीत्यादयः । अन्जे इति जलेभ्य इत्यादि - जलजन्म, जलजं, जलरुक्, जलरुहं; सरोजन्म, सरोजसरुट्, सरोरुहं; पंकजन्म, पंकज, पंकरुट्, पंकेरुहं, नीरजन्म, वारिजं, तोय रुहं पयोरह; सरसीरुहमित्यादयः ||६||
१४५
भृङ्गेति पुष्पेति – पुष्पलिट् मधुपः, मधुव्रतः, प्रसून लिट्, इत्यादयः । षडेति षडंह्रि., षट्पदः पट्चरण इत्यादयः । । छ । । सार्येति-वोलेति-- वाताशन:, पवनाशः, वायुभूमियादयः । द्वीति द्विरसनं, द्विजिह्व इत्यादयः । द्रुग्भ्य इति दृक्श्रुतिः, चक्षुःश्रवा, इत्यादयः । विषेभ्य इत्यादि विषधरः, फणधर : विषभृत्, फणभूदित्यादयः । अत्र गूढादयः गूढपात्
गूढचरणः ||छ ।।
मयूरेति नीलकण्ठः नीलग्रीवः, श्यामकण्ठ, इत्यादयः । भुजगेति-भुजगभुक, सर्पशन इत्यादयः । जलदेभ्य इति जलदसुहृत् मेघसुहृदित्यादयः । वृक्षे इति क्ष्माभ्य इति क्ष्माज:, क्षमाः रुट् क्ष्मारुहभुजः, क्षोणीरुट्, क्षितिरुह इत्यादयः || ६ || जलवा इति जलवाहः, जलमुक्, जलदः, जलधरः, नीरवाहः, तोयमुक्, वारिमुक्, पयोधर, इत्यादयः ||६|| एवमिति निगदसिद्धिः ||छ ||
सूत्रोत्तीर्णाः केचिदन्येऽपि यौगिकशब्दा लिख्यंते । यथा -- मङ्गले पृथ्विभ्य: पुत्रा पृथ्वीपुत्रः धरणीसुतः, कुजः, भौमः महेय इत्यादयः ॥छ ||
बुधे चन्द्रेभ्यः सुताः चन्द्रसुता, चन्द्राङ्गजा, चान्द्रमासायनिः । सौम्यः पिताऽपि सोमो देवतास्य रोहिण्याः सुत रोहिणीसुतः, रोहिणीनन्दनः, रोहिण्णेय, इत्यादय । सुरवः सुरगुरुः, त्रिदशाचार्य, इत्यादयः । सुरेभ्यो मन्त्रिणः सुरमन्त्री विबुधामात्य इत्यादयः || ||
शुक्रे दैतेभ्यो गुरवो मन्त्रिश्च दैत्यगुरुर्दानवाचार्य:, असुरममंत्री, दनुजामात्य, इत्यादयः ||६||
करके मेघेभ्यो ग्रावाणः मेघग्रावा, जलदाश्मा, इत्यादयः । अप्सरः सुस्वर्गेभ्यश्च स्वर्गिभ्यश्च वनायो गणिकाश्च स्वर्गवध्वः, स्वर्गिवध्व, सुरवध्वः, सुरनार्यः स्वर्नार्यः स्वः स्त्रियः स्वर्गिनार्यः, सुरस्त्रियः, स्वर्गणिका, स्वर्वेश्या, सुरवेश्या, इत्यादयः ॥ छ ॥
दवे वनेऽग्नयः दवाग्निः, दववह्निः काननाग्निरित्यादयः । अनिरुद्धे ऋक्षात् ध्वजाः ऋक्षेनामा मृगो ध्वजोऽकश्चिह्नमस्य ऋष्यध्वजः, ऋष्याक, ऋष्यकेतुरित्यादयः । उषायाः प्रिया उषा बाणसुता, तस्याः प्रियः उषाप्रियः, उषेशः, उषारमण इत्यादयः ॥ छ ॥
नक्तं अनृतमय असत्यं सत्येतरवत् ॥ छ ॥
विदुषी मनीषी यो० धीमान् मनिमान् बुद्धिमानित्यादयः || ६ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org