________________
काव्य कल्पलतावृत्तिः -परिशिष्ट
रक्तपुष्पः समञ्जीरस्त्रीपदाघातदोहदः । श्वेतपुष्पः कुरु (र) बकः स्त्रीकुचाश्लेषदोहदः ।। तिलकः श्वेतमञ्जरीकः स्त्रीकटाक्षदोहदः ।' कुप्यकः स्फारकर्पारधूपधूमोमिदोहदः ।। सिन्दूरवासितं पुष्पं मञ्जरी पाटलारुणा । लकुथं श्वेतपीतं च किंशुको रक्तपुष्पकः ।। कणिकारं स्वर्णवर्ण कांचनारं च पाटलं । चम्पकः पीतपुष्पश्च खजूरी श्वेतरेणुभृत् ।। श्वेतप्रसून कलिते मल्लिका नवमल्लिके । करुणः श्वेतकुसुमो रक्तपुष्पश्च दाडिमः ! कोविदारसिंदूवाररोहीतकमधूककाः ।।७१।। आताम्रककिकरातौ प्रियालो मंजरीयुतः । कुमुदोत्पलपद्मानि नालिकेरी प्रसूनवाक् ।।७२।। गोलिकाकार कुसुमः कदम्बकदलीवनं । शोभाञ्जनकः पुष्पेषु पूजां दमनकोच्चयैः ।।७३।। हिन्तालतालतालीषु पुष्पाणि पुष्परेणवः । चंद्रस्योज्ज्वलता पुष्पावचयो जलकेलयः ॥७४।। पूगे पुष्पं बेणिबन्धो माधदी मुकुलेक्षणात् । लाभः प्राक्कोकिलानादकथनाद्दक्षिणानिलः ॥७५॥
यथा
चुम्बन् लकावनालीर्मुहुरलकलता लासयन् केरलीनां
___ मन्ध्री धम्मिल्लबन्धान् सपदि शिथिलयन् वेल्लयन्नागवल्ली । उद्दाम दाक्षिणात्यो मलितमलयज: सारथिर्मीनकेतोः
प्राप्तः सीमंतिनीनां मधसमयसुहृत मानचौर: समीरः ।। ग्रीष्मशुक्रशची तत्र शिरीषश्यामरेणवः । पुष्पाणि स्वर्णकेतक्यां धातुकी प्रसवोद्गमः ।। नालिकेरीषु पूगीषु खजूरी कदलीषु च । पनसेषु प्रियालेषु रसालेषु फलोद्गमः ।। कायमानेषु मध्याह्ननिद्रापानकसक्तवः । मृणालहारा वस्त्राणि सुसूक्ष्माणि सितानि च ।। ताम्बूलमाईक्रमुकं तालवृन्तोदबिन्दवः । धारायंत्रा जलाद्रस्त्रीकुचाश्लेषसुखोत्सवः ।। निशासु कौमुदी सैव चन्दनद्रववर्चना । कदलीदलतल्पानि पाटलामल्लिकास्रजः ॥ रात्रिशेषे च सुरतं सौधाग्रे शयनस्थितिः । नदीहृदसरःशोषः . . . . . पांशपर्वताः ।। चण्डांश्च चण्डातातो यत् कथनं मृगतृष्णका । जलार्दाशयनं कृपा. मरघट्टघटीघटाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org