________________
काव्यकल्पलतावृत्तिः -परिशिष्ट
१३१
उदीच्येष तु गौरता यथा--
पुष्पैः सम्प्रति काञ्चनारतरवः प्रत्यङ्गमालिङ्गिता
वाल्हीकीदशनवणारुणतलैः पत्ररशोकोचितः ।। जातं चम्पकमप्युदीच्यललनालावण्यचौरक्षम
माञ्जिष्टौ मुकुलश्च पाटलितरोरन्यैव काचिल्लिपिः ।। यथा वा कृष्णत्वं यथा--
युधिष्ठिरक्रोधवह्नः कुरुवंशैकदाहिनः ।
पाञ्चाली ददृशः सर्वे कृष्णाधम शिखामिवः ।। एवं श्यामोऽपि न कविमार्गे कृष्णश्यामयो : पाण्डुगौरयोर्वा महाविशेषः इति । गौरो यथा--
तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकौशलेन्द्रपुत्रि
अवगतमलिके मृगांकबिम्बं मृगमदपत्रनिभेन लाञ्छनेन ।। पूर्वदेशराजपुत्र्यादीनां गौरत्वपाण्डुते यथा-- कपोले जानक्याः करिकलभद तद्युतिमुषि
स्मरमेरं गण्डोडमरपूलकं वक्त्रकमलम् । मुहुः श्यन् शृण्वन् रजनिचरसेनाकलकलं
जटाजूटाग्रन्थिं द्रढयति रधूणां परिदृढः ।। यथा वा--
तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् । शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी ।। यथासम्भवमभ्यूह्ममित्यन्यदपि कोविदः । जिनागमोक रीत्या (त?) कथ्यते देशसंस्थितिः ।। द्वीप आद्यो जम्बुद्वीपो लवणाम्बधिवेष्टितः । द्वीपोऽथ धातुकीखंडः कालोदोदधिरनावृतः ।। द्वीपोऽथ पुष्करावारो वृतस्तन्नामवद्धितः । शैलोऽस्ति पुष्करद्वीपो मानुषो (तु) यथोत्तरः ।। तदेतन्मानुष क्षेत्र सार्द्धद्वीपद्वयं मतम् । जम्बूद्वीपप्रतिष्ठानि सप्तक्षेत्राणि तेषु तु ।। मध्यक्षेत्र विदेहाख्यं देवोत्तरकुरून् इह । तद्गर्भे नाभिरूपस्तु मेरुः स्वर्णमयो गिरिः ॥ हरिवर्ष हैमवंत भरतं चास्य दक्षिणे । रम्यकेऽरण्य केवै रावते चोत्तरेऽस्य तु ॥ धातुकीखण्ड पुष्करवरद्वीपाद्वीपार्द्धके तथा । क्षेत्राणि द्विगुणानि स्युः तान्यरावतनामभिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org