________________
३६६
[काव्यानुशासनम् प्रधानमधिकृत्य यत्र द्वयोर्विवादः सार्धप्राकृतरचिता चेटकादिवत् प्रवलिका ।
प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचना-अनङ्गवत्यादिवन्मन्थल्लिका । यस्यां पुरोहितामात्यतापसादीनां प्रारब्धानिर्वाहे उपहासः सापि मन्थल्लिका ।
यस्यां पूर्वं वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यहसितादिवन्मणिकुल्या । एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रधाना शूद्रकादिवत् परिकथा । मध्यादुपान्तो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सा इन्दुमत्यादिवत् खण्डकथा । समस्तफलान्तेतिवृत्तवर्णना समरादित्यादिवत् सकलकथा । एकतरचरिताश्रयेण प्रसिद्धकथान्तरोपनिबन्ध उपकथा । लभ्भाङ्किताद्भुतार्था नरवाहनदत्तादिचरितवद् बृहत्कथा एते च कथाप्रभेदा एवेति न पृथग् लक्षिताः ।
२०४) गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः ॥९॥
संस्कृताभ्यां गद्यपद्यभ्यां रचिता, अभिप्रायेण यान्यङ्कनानि स्वनाम्ना परनाम्ना वा कविः करोति तैर्युक्ता उच्छ्वासनिबद्धा चम्पू: । यथा वासवदत्ता दमयन्ती वा ।
२०५) अनिबद्धं मुक्तकादि ॥१०॥ मुक्तकसंदानितकविशेषककलापककुलकपर्याकोशप्रभृत्यनिबद्धम् ।
१५
एषां लक्षणमाह
२०६) एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषककलापकानि ॥११॥
एकेन च्छन्दसा वाक्यार्थसमाप्तौ मुक्तकं यथा-अमरुकस्य शृङ्गारशते रसस्यन्दिनो मुक्तकाः । द्वाभ्यां सन्दानितकम् । त्रिभिर्विशेषकम् । चतुर्भिः कलापकम् । एतानि च विशेषानभिधानात् सर्वभाषाभिर्भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org