________________
३६४
__ [काव्यानुशासनम् अर्थवैचित्र्यं यथा-चतुर्वर्गफलोपायत्वम्, चतुरोदात्तनायकत्वम्, रसभावनिरन्तरत्वम्, विधिनिषेधव्युत्पादकत्वम्, सुसूत्रसंविधानकत्वम्, नगराश्रमशैलसैन्यावासार्णवादिवर्णनम्, ऋतुरात्रिंदिवार्कास्तमयचन्द्रोदयादिवर्णनम्, नायकनायिकाकुमारवाहनादिवर्णनम्, मन्त्रदूतप्रयाणसंग्रामाभ्युदयादिवर्णनम्, वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णनमिति ।
उभयवैचित्र्यं यथा-रसानुरूपसंदर्भत्वम्, अर्थानुरूपछन्दस्त्वम्, समस्तलोकरञ्जकत्वम्, सदलङ्कार - वाक्यत्वम्, देशकालपात्रचेष्टाकथान्तरानुषञ्जनम्, मर्गद्वयानुवर्तनं चेति ।
तत्र संस्कृतभाषानिबद्धसर्गबन्धं हयग्रीववधादि, प्राकृतभाषानिबद्धाश्वासकबन्धं सेतुबन्धादि, अपभ्रंशभाषानिबद्धसन्धिबन्धं अब्धिमथनादि, ग्राम्यापभ्रंशभाषानिबद्धावस्कन्धबन्धं भीमकाव्यादि । प्रायोग्रहणात् संस्कृतभाषयाऽप्याश्वासकबन्धो हरिप्रबोधादौ न दुष्यति । प्रायोग्रहणादेव रावणविजयहरिविजयसेतुबन्धेष्वादितः समाप्तिपर्यन्तमेकमेव छन्दो भवतीति । गलितकानि तु तत्र कैरपि विदग्धमानिभिः क्षिप्तानीति तद्विदो भाषन्ते । २०२) नायकाख्यातस्ववृत्ता भाव्यर्थशंसिवक्त्रादिः सोच्छ्वासा संस्कृता गद्य
युक्ताख्यायिका ॥७॥
धीरप्रशान्तस्य गाम्भीर्यगुणोत्कर्षात् स्वयं स्वगुणोपवर्णनं न संभवतीत्यर्थाद् यस्यां धीरोद्धतादिना १५ नायकेन स्वकीयं वृत्तं सदाचाररूपं चेष्टितं कन्यापहारसंग्रामसमागमाभ्युदयभूषितं मित्रादिष्वाख्यायते,
अनागतार्थशंसीनि च वक्त्रापरवक्त्रार्यादीनि यत्र बध्यन्ते, यत्र चावान्तरप्रकरणसमाप्तावुच्छ्वासा बध्यन्ते सा संस्कृतभाषानिबद्धा, 'अपादः पदसंतानो गद्यं' (काव्यादर्श १.२३) तेन युक्ता । युक्तग्रहणादन्तरान्तरा प्रविरलपद्यनिबन्धेऽप्यदुष्टा आख्यायिका । यथा हर्षचरितादिः । __ २०३) धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा ॥८॥
आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः तस्य तु वृत्तमन्येन कविना वा यत्र वर्ण्यते, या च काचिद् गद्यमयी यथा कादम्बरी, काचित् पद्यमयी यथा लीलावती, या च सर्वभाषा काचित् संस्कृतेन काचित् प्राकृतेन काचिन्मागध्या काचिच्छूरसेन्या काचित् पिशाच्या काचिदपभ्रंशेन बध्यते सा कथा।
प्रबन्धमध्ये परबोधनार्थं नलाद्युपाख्यानमिवोपाख्यानमभिनयन् पठन् गायन् यदेको ग्रन्थिकः कथयति तद् गोविन्दवदाख्यानम् ।।
तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कार्यमकार्यं वा निश्चीयते तत् पञ्चतन्त्रादिवत्, धूर्तविटकुट्टनीमतमयूरमार्जारिकादिवच्च निदर्शनम् ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org