SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ३६० १० १५ २० २५ ३० Jain Education International (५८) विष्कम्भकप्रवेशकरहितो यस्त्वेकभाषया भवति । अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः || इति|| [शृङ्गारप्रकाश, प्रकाश ११ (पृ. ४६६ ) ] आदिशब्दात् कोहलादिलक्षितास्तोटकादयो ग्राह्याः । गेयं विभजते १९९) गेयं डोम्बिकाभाणप्रस्थानशिङ्गकभाणिकाप्रेरणरामाक्रीडहल्लीसकरासकगोष्ठी श्रीगदितरागकाव्यादि ॥४॥ पदार्थाभिनयस्वभावानि डोम्बिकादीनि गेयांनि रूपकाणि चिरंतनैरुक्तानि । तद् यथा (५९) छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः । आवर्ज्यते मनः सा तु मसृणा डोम्बिका मता ॥ (६०) नृसिंहसूकरादीनां वर्णनं जल्पयेद् यतः । नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः ॥ (६१) गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा । अल्पविद्धं सुमसृणं तत् प्रस्थानं प्रचक्षते || (६२) सख्याः समक्षं पत्युर्यदुद्धतं वृत्तमुच्यते । मसृणं च क्वचिद् धूर्तचरितं शिङ्गकस्तु सः ॥ (६३) बालक्रीडानियुद्धादि तथा सूकरसिंहजा । धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥ (६४) हास्यप्रायं प्रेरणं तु स्यात् प्रहेलिकयान्वितम् । (६५) ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥ ( ६६ ) मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम् । एकस्तत्र तु नेता स्याद् गोपस्त्रीणां यथा हरिः ॥ (६७) अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आचतुःषष्टियुगलाद् रासकं मसृणोद्धतम् ॥ (६८) गोष्ठे यत्र विहरतश्चेष्टितमिह कैटभद्विषः किञ्चित् । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥ [काव्यानुशासनम् (६९) यस्मिन् कुलाङ्गना पत्युः सख्यग्रे वर्णयेद् गुणान् । उपालम्भं च कुरुते गेये श्रीगदितं तु तत् ॥ ( ७० ) लयान्तरप्रयोगेण रागैश्चापि विचित्रितम् । नानारसं सुनिर्वाह्यकथं काव्यमिति स्मृतम् ॥ इति ॥ [ ] For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy