SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ३५८ [काव्यानुशासनम् (५४) वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य ॥ प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्तः शेषैरन्यैर्भवेत् पुंभिः ।। करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च । स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनः । कार्य: काव्यविधिज्ञैः सततं झुत्सृष्टिकाङ्कस्तु ॥ (नाट्यशास्त्र १८.९३(ब)-९६)] (५५) प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम् । वक्ष्यामि तयोर्युक्त्या पृथक् पृथग् लक्षणविशेषम् ।। भगवत्तापसविप्रैरन्यैरपि हासवादसंबद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ अविकृतभाषाचारं विशेषभावोपपन्नचरितमिदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टितकरणं च संकीर्णम् ॥ [नाट्यशास्त्र १८.१०१, १०३-१०५] (५६) आत्मानुभूतशंसी परसंश्रयवर्णनाप्रयुक्तश्च । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च । परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च ॥ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाङ्को बहुचेष्टः सततं कार्यों बुधैर्भाणः ॥ [नाट्यशास्त्र १८.१०८-११०] (५७) सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्तथा त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥ [नाट्यशास्त्र १८.११२] २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy