SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ३५६ ५ १० १५ २० २५ Jain Education International (५१) दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संस्फेटकृतस्तथा चैव ॥ स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः । हामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥ यद् व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव । ईहामृगेऽपि तत् स्यात् केवलमत्र स्त्रिया योगः ॥ (५२) प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ शृङ्गारहास्यवर्जं शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः || निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंस्फेटकृतश्च विज्ञेयः ॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्ष पिशाचावकीर्णश्च ॥ षोडशनायकबहुलः सात्त्वत्यारभटिवृत्तिसंपन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसंयुक्तः ॥ [काव्यानुशासनम् [ नाट्यशास्त्र १८.७८-८१] [ नाट्यशास्त्र १८.८४-८८ ] (५३) व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः ॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः । For Private & Personal Use Only [ नाट्यशास्त्र १८.९०-९३ (अ)] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy