________________
३५४
[काव्यानुशासनम् (४८) यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव ।
औत्पत्तिकं प्रकुरुते प्रकरणमिति तद् बुधैर्जेयम् ।। यदनार्षमथाहार्य काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत् प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु ।। विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैकविधं तज्ज्ञेयं प्रकरणं नाम ।। नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं नाम । दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रकरणे तु ।।
[नाट्यशास्त्र १८.४५-५०] (४९) प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् ।
अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ।। स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुनृत्तगीतवाद्या रसिंभोगात्मिका चैव ।। राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूतीसपरिजना नाटिका ज्ञेया ।।
[नाट्यशास्त्र १८.५८-६०] समवकारस्तु
(५०) देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ॥
त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात् त्रिशृङ्गारः । द्वादशनायकबहुलो ह्यष्टादशनालिकाप्रमाणश्च ।। इति ।
[नाट्यशास्त्र १८.६३-६४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org