________________
॥ अष्टमोऽध्याय ॥
अथ प्रबन्धात्मककाव्यभेदानाह१९६) काव्यं प्रेक्ष्यं श्रव्यं च ॥१॥
नानृषिः कविरिति कवृ वर्णन (?) इति च दर्शनाद् वर्णनाच्च कविस्तस्य कर्म काव्यम् । एवं च दर्शने सत्यपि वर्णनाया अभावादितिहासादीनां न काव्यत्वमिति तल्लक्षणं न वक्ष्यते । तथा चाह भट्टतात:
(४६) नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् ।
विचित्रभावधर्मांशतत्त्वप्रख्या च दर्शनम् ।। स तत्त्वदर्शनादेव शास्त्रेषु पठितः कविः । दर्शनाद् वर्णनाच्चाथ रूढा लोके कविश्रुतिः ।। तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः ।।
नोदिता कविता लोके यावज्जाता न वर्णना ।। इति ।। प्रेक्ष्यमभिनेयम् । श्रव्यमनभिनेयम् । प्रेक्ष्यं विभजते१९७) प्रेक्ष्यं पाठयं गेयं च ॥२॥ तत्र पाठ्यं भिनत्ति।
१९८) पाठ्यं नाटकप्रकरणनाटिकासमवकारेहामृगडिमव्यायोगोत्सृष्टिकाङ्कप्रहसनभाणवीथीसट्टकादि ॥३॥ ___ तथा च नाटकादीनि वीथ्यन्तानि वाक्यार्थाभिनयस्वभावानि भरतमुनिनोपदर्शितानि, सट्टकश्च कैश्चित् ।
यथा
(४७) प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव ।
राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ॥१०॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ।
[नाट्यशास्त्र १८.१०-११]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org