________________
३५०
[काव्यानुशासनम् १९४) प्रश्रय औदार्यम् ॥५१॥ अमर्षेाक्रोधाद्यवस्थास्वपि प्रश्रय औदार्यम् । यथा
भ्रूभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रतामीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं क्रोधश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥७४४॥
[रत्नावली २.२०] १९५) प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् ॥५२॥ प्रयोगे कामकलादौ चातुःषष्टिके इत्यर्थः । यदाह
(४४) अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । ___ पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥
[शिशुपाल० २.४४] मनःक्षोभपूर्वकोऽङ्गसादः साध्वसं तदभावः प्रागल्भ्यम् । यथा
_ 'आशु लचितवतीष्टकराग्रे' (पृ. २३४) ॥७४५।। इति । अत्र शोभाकान्तिदीप्तयो बाह्यरूपादिगता एव विशेषा आवेगचापलामर्षत्रासानां त्वभाव एव । माधुर्याद्या धर्मा न चित्तवृत्तिस्वभावा इति नैतेषु भावशङ्कावकाशः । शाक्याचार्यराहुलादयस्तु (४५) मौग्ध्यमदभाविकत्व (? भावविकृत)परितपनादीनप्यलङ्कारानाचक्षते । तेऽस्माभिर्भरतमतानुसारिभिरुपेक्षिताः ।
इति ॥ आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ
नायकवर्णनः सप्तमोऽध्यायः समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org