________________
३४२
१५
[ मालतीमाधव १.२९]
१८९) गर्वादल्पाकल्पन्यासः शोभाकृद् विच्छित्तिः ||३८|| सौभाग्यगर्वादनादरेण कृतो माल्याच्छादनभूषणविलेपनरूपस्याल्पस्याकल्पस्य न्यासः सौभाग्यमहिम्ना १० शोभाहेतुर्विच्छित्तिः । यथा
२०
२५
१८०) स्थानादीनां वैशिष्ट्यं विलासः ||३७||
स्थानमूर्ध्वता । आदिशब्दादुपवेशनगमनहस्तभ्रूनेत्रकर्मपरिग्रहः । तेषां वैशिष्ट्यं विलासः । यथाअत्रान्तरे किमपि वाग्विभवातिवृत्तं
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारविशेषरम्य
माचार्यकं विजयि मान्मथमाविरासीत् ॥७२८॥
सिहिपिच्छकण्णऊरा जाया वाहस्स गव्विरी भमइ । मुत्ताहलर अपसाहणाण मज्झे सवत्तीणं ॥ ७२९॥
१८२) इष्टेऽप्यवज्ञा बिब्वोकः ||३९|| सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो बिब्बोकः यथा
Jain Education International
[ सप्तशती १७३; गाथासप्तशती २.७३]
[काव्यानुशासनम्
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥७३०||
१८३) वागङ्गभूषणानां व्यत्यासो विभ्रमः ॥४०॥
सौभाग्यगर्वाद् वचनादीनामन्यथा निवेशो व्यत्यासो विभ्रमः । वचनेऽन्यथा वक्तव्येऽन्यथा भाषणम् । हस्तेनादातव्ये पादेनादानम् । रशनायाः कण्ठे न्यासः । यथा
चकार काचित् सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे प्रियं प्रति प्रेषितचित्तवृत्ति
नितम्बबिम्बे च बबन्ध हारम् ॥७३१||
[स.कं. ५/१५५]
For Private & Personal Use Only
[कुमार० ८.४९]
www.jainelibrary.org