________________
३४०
[काव्यानुशासनम् बहुविकारात्मा भूतारकचिबुकग्रीवादेर्धर्मः स्वचित्तवृत्तिं परत्र जुह्वतीं ददती कुमारी हावयतीति हावः । सा चाद्यापि स्वयं रतेः प्रबोधं न मन्यते केवलं तत्संस्कारबलतस्तथाविकारान् करोति यैर्दृष्टा तथा कल्पयति । यथा
स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥७२५॥
[सुभाषितावलौ (श्लो. २२३६)] यदा तु रतिवासनाप्रबोधात्तां प्रबुद्धां रतिमभिमन्यते केवलं समुचितविभावोपग्रहविरहानिर्विषयतया १० स्फुटीभावं न प्रतिपद्यते तदा तजनितबहुतराङ्गविकारात्मा हेला, हावस्य सम्बन्धिनी क्रिया प्रसरत्ता
वेगवाहित्वमित्यर्थः, वेगेन हि गच्छन् हेलतीत्युच्यते लोके इति । एवं चोद्भिद्योद्भिद्य विश्राम्यन् हावः । स एव प्रसरणैकस्वभावो हेलेति । यथा
_ 'कुरङ्गीवाङ्गानि' (पृ. २६४) ॥७२६॥ इति । अत्र ह्यन्तर्गतरतिप्रबोधमात्रमुक्तं न त्वभिलाषशृङ्गार इति मन्तव्यम् । तदेतद्ब्राह्मणस्योपनयनमिव १५ भविष्यत्पुरुषार्थसद्मपीठबन्धत्वेन योषितामामनन्ति ।
१७८) लीलादयो दश स्वाभाविकाः ॥३५॥ विशिष्टविभावलाभे रतौ सविषयत्वेन (? सविशेषत्वेन) स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलाविलासविच्छित्तिबिब्बोकविभ्रमकिलिकिञ्चितमोट्टायितकुट्टमितललितविहृतनामानः । एते च
प्राप्तसंभोगत्वेऽप्राप्तसंभोगत्वे च भवन्ति । शोभादयश्च सप्त वक्ष्यमाणाः प्राप्तसंभोगतायामेव । २० लीलादील्लक्षयति
१७९) वाग्वेषचेष्टितैः प्रियस्यानुकृतिर्लीला ॥३६॥ प्रियगतानां वाग्वेषचेष्टानां प्रियबहुमानातिशयेन न तूद्धट्टकरूपेणात्मनि योजनमनुकृतिबला ।
यथा
जं जं करेसि जं जं च जंपसे जह तुम निअंसेसि । तं तमणुसिक्खिरीए दिअहो दिअहो न संवडइ ॥७२७॥
[सप्तशती ३७८; गाथासप्तशती ४.७८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org