________________
३३८
[काव्यानुशासनम् अलङ्काराश्च केचन क्रियात्मकाः केचिद् गुणस्वभावाः । क्रियात्मका अपि केचन प्राग्जन्माभ्यस्तरतिभावमात्रेण सत्त्वोद्बुद्धेन देहमात्रे सति भवन्ति । तेऽङ्गजा इत्युच्यन्ते । अन्ये त्वद्यतनजन्मसमुचितविभाववशस्फुटीभवद्रतिभावानुविद्धे देहे परिस्फुरन्ति ते स्वाभाविकाः, स्वस्माद् रतिभावाद् हृदयगोचरीभूताद् भवन्ति-इति । तथा हि कस्याश्चिन्नायिकायाः कश्चिदेव स्वभावबलाद् भवति, अन्यस्या अन्यः, कस्याश्चिद् द्वौ, त्रय इत्यादि, अतोऽपि स्वाभाविकाः । भावहावहेलास्तु सर्वा एव सर्वास्वेव सत्त्वाधिकास्तू(सू)तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमङ्गजाः स्वाभाविकाश्च क्रियात्मानः । शोभादयस्तु गुणात्मानस्ते चायनजाः । यत्नाजाताः क्रियात्मकाः । इच्छातो यत्नस्ततो देहे क्रियेति पदार्थविदः । ततोऽन्येऽयत्नजाः ।
तान् क्रमेण लक्षयति१७७) भावहावहेलास्त्रयोऽङ्गजा अल्पबहुभूयोविकारात्मका: ॥३४॥ यद्यपि
(४१) देहात्मकं भवेत् सत्त्वं सत्त्वाद् भावः समुत्थितः । भावात् समुत्थितो हावो हावाद्धेला समुत्थिता ।।
__ [नाट्यशास्त्र २४.७ (C.S.S.)-२२.६ (GOS)] १५ इति भरतवचनात् क्रमेणैषां हेतुभावः, तथापि परम्परया तीव्रतमसत्त्वस्याङ्गस्यैव कारणत्वादङ्गजा
इत्युक्ताः । एवं च परस्परसमुत्थितत्वेऽप्यमीषामङ्गजत्वमेव । तथा हि-कुमारीशरीरे प्रौढतमकुमार्यन्तरगतहेलावलोकने हावोद्भवो भावश्चेदुल्लासितपूर्वः, अन्यथा तु भावस्यैवोद्भवः। एवं भावेऽपि दृष्टे हावो हेला वा। यदा तु हावावस्थोद्भिन्नपूर्वा परत्र च हेला दृश्यते तदा हेलातोऽपि हेला। एवं हावाद् हावः भावाद् भाव इत्यपि वाच्यम् । एवं परकीयभावादिश्रवणात् सरसकाव्यादेरपि हेलादीनां प्रयोगो भवतीति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वम् । तत्राङ्गस्याल्पो विकारोऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयन् सूचयन् भावः । यथा
दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रं प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग् यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥७२४॥
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org