________________
३३४
[काव्यानुशासनम् ईर्ष्याकलहेन निष्क्रान्तभर्तृकत्वात्तत्संगमसुखेनान्तरिता कलहान्तरिता । यथा
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तं दिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयाँस्तथोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥७१८॥
[अमरु० ९२] (३९) परिपाट्यां फलार्थे वा नवे प्रसव एव वा ।
दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ उचिते वासके स्त्रीणामृतुकालेऽपि वा बुधैः । द्वेष्याणामथवेष्टानां कर्तव्यमुपसर्पणम् ॥
[नाट्यशास्त्र २२.२०९-२१०] इति नयेन वासके रतिसंभोगलालसतयाङ्गरागादिना सज्जा प्रगुणा वासकसज्जा । यथा
तल्पकल्पनविधेरनन्तरं भर्तृमार्गमवलोकते मुहुः । दर्पणे क्षणमुदीक्षते वपुर्हर्षभूषणमनिन्द्यभूषणा ॥७१९॥
प्रियंमन्या चिरयति भर्तरि विरहोत्कठिता । यथा
अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृद् यो मां नेच्छति नागतश्च स हहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरवकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥७२०॥
_ [का.प्र.४.३३] दूतीमुखेन स्वयं वा संकेतं कृत्वा केनापि कारणेन वञ्चिता विप्रलब्धा । यथा
यत् संकेतगृहं प्रियेण कथितं संप्रेष्य दूतीं स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया। स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैरश्रुभिः भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः ॥७२१॥ [
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org