SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ [काव्यानुशासनम् प्रौढा धीराधीरानुकूला यथा यत्पाणिर्न निवारितो निवसनग्रन्थिं समुद्ग्रन्थयन् भ्रूभेदो न कृतो मनागपि मुहुर्यत्खण्ड्य मानेऽधरे । यनिःशङ्कमिहार्पितं वपुरहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥७०८।। [शृङ्गारतिलकम् परि. १ का. ४४ अनन्तरम्] सैवोदासीना यथा आयस्ता कलहं पुरेव कुरुते न संसने वाससो भग्नभूरतिखण्ड्य मानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष सम्प्रति कुतः कोपप्रकारोऽपरः ॥७०९।। [अमरु० १०६] प्रौढाऽधीरा संतर्जनेन यथा तथाभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु त्वं प्रेयानहमपि हताशा प्रियतमा । इदानीं त्वं नाथो वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥७१०॥ [अमरु० ६९] सैव साघाता यथा 'कोपात् कोमलबाहुलोल-' (पृ० १६) ॥७११॥ इति । परस्त्रीलक्षणमाह१७१) परोढा परस्त्री कन्या च ॥२८॥ परेणोढा परस्य स्त्री परस्त्री। सा च नाङ्गिनि रसे उपकारिणीति नास्याः प्रपञ्चः कृतः । ऊढेत्युपलक्षणम् । _अवरुद्धापि परस्त्रीत्युच्यते। परोढा यथा२५ दृष्टिं हे प्रतिवेशिनि' (पृ० २८) । ॥७१२।। इति । __ कन्या तु पित्राद्यायत्तत्वादनूढापि परस्त्री। यथा दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुचयोः शोभां नवामीहते । नो धत्ते गुरुतां तथाप्युपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेकपेयं वपुः ॥७१३।। ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy