SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ १५ ३२८ [काव्यानुशासनम् अथासां क्रोधचेष्टामाह१६९) सोत्प्रासवक्रोक्त्या सबाष्पया वाक्पारुष्येण क्रोधिन्यो मध्या धीराद्याः ॥२६॥ मध्या धीराद्यास्तिस्रोऽपि यथासंख्यं सोत्प्रासवक्रोक्त्यादिभिः क्रोधं कुर्वन्ति । तत्र सोत्प्रासवक्रोक्त्या मध्या धीरा यथा न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासको रहस्त्वाम् । व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥७०३।। [शिशुपाल० ७.५३] सबाष्पया सोत्प्रासवक्रोक्त्या धीराधीरा यथा ___'बाले नाथ' (पृ. १४८) इति ॥७०४॥ [अमरु० ५७] वाक्पारुष्येणाधीरा यथा धिङ् मां किं समुपेत्य चुम्बसि बलानिर्लज्ज लज्जा व ते वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्बाधसे । खिन्नाहं तव रात्रिजागरतया तामेव याहि प्रियां निर्माल्योज्झितपुष्पदामनिकरे का षट्पदानां रतिः ॥७०५॥ १७०) उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संतर्जनाघाताभ्यां प्रौढा धीराद्याः॥२७॥ प्रौढा धीराद्यास्तिस्रोऽपि यथासंख्यमुपचारावहित्थादिद्विकत्रयेण क्रोधिन्यो भवन्ति । तत्र धीरा प्रौढा सोपचारा यथा- . एकत्रासनसंगतिः परिहृता प्रत्युद्गमाद् दूरतस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥७०६।। [अमरु० १८] सैव सावहित्था यथा वरं भ्रूभङ्गास्ते प्रकटितगुरुक्रोधविभवा वरं सोपालम्भाः प्रणयमधुरा गद्गदगिरः । वरं मानाटोपप्रसभजनितोऽनादरविधिर्न गूढान्तःकोपा कठिनहृदये संवृत्तिरियम् ॥७०७।। [सुभाषितावलौ (श्लो. १६२३)] २० ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy