SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३२६ [काव्यानुशासनम् वयसा मध्या यथा तरन्तीवाङ्गानि स्स्वलदमललावण्यजलधौ प्रथम्निः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढ: परिचयः ॥६९९॥ । कौशलेन यथा स्वेदाम्भः कणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विनम्भेऽपि गुरौ पयोधरभरोत्कम्पे च वृद्धि गते । दुर्वारस्मरनिभरेऽपि हृदये नैवाभियुक्तः प्रियस्तन्वङ्गया हठकेशकर्षणघनश्लेषामृते लुब्धया ॥७००॥ [सुभाषितावलौ (श्लो. २०७१)] वयसा प्रगल्भा (? प्रौढा) यथा नितम्बो मन्दत्वं जनयति गुरुत्वाद् द्रुतगतेमहत्त्वादुद्वृत्तस्तनकलशभारः श्रमयति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ।।७०१।। १० कौशलेन तथा उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥७०२॥ [शिशुपाल० १०.७६] १६७) धीराधीराधीराऽधीराभेदादन्त्ये त्रेधा ॥२४॥ अन्त्ये मध्याप्रौढे । त्रेधा-धीरा मध्या, धीराधीरा मध्या, अधीरा मध्या । एवं प्रौढापि त्रेधा । १६८) षोढापि ज्येष्ठाकनिष्ठाभेदाद् द्वादशधा ॥२५॥ मध्याप्रौढयोः प्रत्येकं त्रिभेदत्वात् षड्विधापि ज्येष्ठाकनिष्ठाभेदावादशधा स्वस्त्री भवति । तत्र प्रथममूढा ज्येष्ठा पश्चादूढा कनिष्ठा । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy