________________
३२४
[काव्यानुशासनम् १६२) गूढवपराधः शठः ॥१९॥ यथा
___‘एकत्रासनसंगते प्रियतमे' । इति । ६९५ । [अमरु० १९(?)] नायकविजेयं प्रतिनायकमाह१६३) व्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धत: प्रतिनायकः ॥२०॥ यथा-रामयुधिष्ठिरयो रावणदुर्योधनौ । नायिकालक्षणमाह१६४) तद्गुणा स्वपरसामान्या नायिकाऽपि त्रेधा ॥२१॥ तद्गुणा यथोक्तसंभविनायकगुणयोगिनी नायिका । सा च स्वकीया, परकीया, सामान्या चेति त्रेधा । स्वस्त्रीलक्षणमाह१६५) स्वयमूढा शीलादिमती स्वा ॥२२॥ आदिग्रहणादार्जवलज्जागृहाचारनैपुणादिपरिग्रहः । शीलं यथा
कुलबालिआए पेच्छह जोव्वणलायण्णविन्भमविलासा । पवसंति व्व पवसिए एंति व्व पिए घरमइंते (? घरं एते) ॥६९६।।
१६६) वय: कौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा ॥२३॥
वयः शरीरावस्थाविशेषः, कौशलं कामोपचारनैपुणं, ताभ्यां मुग्धा । एवं मध्या प्रौढा चेति । तत्र वयसा मुग्धा यथा
दोर्मूलावधिसूत्रितस्तनमुरः स्निह्यत्कटाक्षे दृशौ किञ्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिषु भ्रूलते । चेतः कन्दलितं स्मरव्यतिकरैर्लावण्यमङ्गैधृतं तन्वङ्ग्यास्तरुणिम्नि सर्पति शनैरन्यैव काचिद् गतिः ।।६९७।।
२५
कौशलेन यथा
उदितोरुसादमतिवेपथुमत् सुदृशोऽभिभर्तृ विधुरं त्रपया । वपुरादरातिशयशंसि पुरः प्रतिपत्तिमूढमपि बाढमभूत् ॥६९८॥
[शिशुपाल० ९.७७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org