________________
३१८
[काव्यानुशासनम् १४९) क्षोभेऽप्यनुल्बणत्वं माधुर्यम् ॥६॥ महत्यपि युद्धनियुद्धव्यायामादौ क्षोभहेतौ अनुल्बणत्वं मधुरा चेष्टा माधुर्यम् । यथा
कपोले जानक्या: करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥६८५॥
[हनुमन्नाटक ३.५०] १५०) विघ्नेऽप्यचलनं स्थैर्यम् ॥७॥ सत्यपि विघ्ने उद्यमादपरिभ्रंशः स्थैर्यम् । यथा
यथा यथा समारम्भो दैवात् सिद्धिं न गच्छति । तथा तथाधिकोत्साहो धीराणां हृदि वर्धते ॥६८६।।
१५
२०
१५१) हर्षादिविकारानुपलम्भकृद्रगाम्भीर्यम् ॥८॥
यस्य प्रभावाद् बहिर्हर्षक्रोधादीनां विकारा दृष्टिविकासमुखरागादयो नोपलभ्यन्ते तन्निस्तिमितदेहस्वभावं गाम्भीर्यम् । यथा
आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥६८७।।
[स.कं.४.१२१] १५२) स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् ॥९॥
अभ्युपपत्तिः परित्राणाद्यर्थिनोऽङ्गीकरणम् । परजनविषयं दानादिचेष्टात्मकमेवौदार्यम् । स्वग्रहणं तु दृष्टान्तार्थम् । स्वेष्विव परेष्वपीत्यर्थः । दानं यथा
शिरामुखैः स्यदन्त एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवैव तावत् किं भक्षणात्त्वं विरतो गरुत्मन् ॥६८८॥
[नागानन्द ५.१५] अभ्युपपत्तिर्यथा
एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥६८९।।
[कुमार० ६.६३]
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org