________________
३१६
[काव्यानुशासनम्
शौर्यं यथा
खरेण खण्डिताशेषगात्रेण रणमूर्धनि । रामव्याजेन लोकेषु शौर्यमुत्सारितं नृणाम् ॥६७९।।
उत्साहो यथा
मू| जाम्बवतोऽभिवाद्य चरणानापृच्छय सेनापतीनाश्वास्याश्रुमुखान्मुहुः प्रियसखान् प्रेष्यान् समादिश्य च । आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥६८०॥
सि.कं.५.२०] नीचजुगुप्सा यथा
उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः । प्रयुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ॥६८१।।
। [महावीर० १.३७] उत्तमस्पर्धा यथा
एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते
मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् ॥६८२॥ [स.कं.५.१०४] १४७) धीरे गतिदृष्टी सस्मितं वचो विलासः ॥४॥ यथा
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयमेत्युत दर्प एव ॥६८३॥ [उत्तरराम० ६.१९] १४८) मृदुशृङ्गारचेष्टा ललितम् ॥५॥ यथा
कश्चित् कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥६८४॥
[रघु० ६.१३]
२०
२५
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org