________________
३०६
१०
१५
२०
२५
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात् सारमुद्धेरत् ||६५८||
[स.कं. ३.५४]
पोढमहिलाण जं सुद्रढु सिक्खिअं तं रए सुहावेइ | जंजं असिक्खिअं नववूहण तं तं दिहिं देइ || ६५९॥
[स.कं. ३.५६; ५.२२३]
एषु कौटिल्यं कचनिचय एव इत्यादि, राज्ये सारं वसुधा एव इत्यादि, वित्तात् सारं दानमेवेत्यादि, प्रौढमहिलानां सुशिक्षितमेवेत्याद्यपोह्यमानस्य प्रतीयमानत्वम् । अन्यापोहाभावे प्रश्नोत्तरोक्तौ न वैचित्र्यं किञ्चिदिति नोत्तरं पृथग् लक्षितम् । उत्तरात् प्रश्नादिप्रतिपत्तिस्त्वनुमानमेव ।
यथा
'वाणिअय हत्थिदंता' (पृ. ३४) ॥ ६६० ॥ इति । अत्र विशिष्टोत्तरान्यथानुपपत्त्या प्रश्नानुमानम् ।
तथा
Jain Education International
जं भणह तं सहीओ आम करेहामि तं तहा सव्वं । जड़ तरह रुंभिउं मे धीरं समुहागए तम्मि ॥ ६६१॥
अत्र 'भ्रुकुटयादिभिर्मानं कुरु' इति सख्याः पूर्ववाक्यमनुमीयते । १४२) यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला ॥३०॥ उत्तरमुत्तरं प्रति पूर्वस्य पूर्वस्य कारणत्वे कारणमाला । यथानिर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविवशो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ||६६२||
[काव्यानुशासनम्
[सप्तशती ८९७]
For Private & Personal Use Only
कारणमात्रं तु न वैचित्र्यपात्रमिति न हेतुरलङ्कारान्तरम् । १४३) स्वातन्त्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकरः ॥३१॥
[ मृच्छकटिक १.१४]
परस्परं निरपेक्षत्वं स्वातन्त्र्यम् । उपकारकत्वमङ्गत्वम् । एकस्य ग्रहेऽन्यस्य त्यागे साधकबाधकप्रमाणाभावादनिर्णयः संशयः । एकस्मिन् पदेऽर्थाच्छब्दार्थालङ्कारयोः समावेश ऐकपद्यम् । एभिरेषां पूर्वोक्तानामलङ्काराणामेकत्र वाक्ये वाक्यार्थे वाऽवस्थानं संकीर्यमाणस्वरूपत्वात् संकरः ।
www.jainelibrary.org