SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३०४ [काव्यानुशासनम् क्रिये यथा प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥६५१|| [कुमार० ३.६६] गुणक्रिये यथा कलुषं च तवाहितेष्वकस्मात् सितपङ्केरुहसोदरभि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥६५२।। [का.प्र.१०.५१३] १४१) पुष्टेऽपृष्टे वा अन्यापोहपरोक्तिः परिसंख्या ॥२९॥ १० पृष्टेऽपृष्टे वा सत्यन्यव्यवच्छेदपरा योक्तिः सा परिसंख्यानात् परिसंख्या । उभयत्रोपमानस्य वाच्यत्वं प्रतीयमानता चेति चत्वारोऽस्या भेदाः । पृष्टे यथा कोऽलङ्कारः सतां शीलं न तु काञ्चननिर्मितम् । किमादेयं प्रयत्नेन धर्मो न तु धनादिकम् ॥६५३।। का विसमा दिव्वगई किं लटुं जं जणो गुणग्गाही । - किं सुक्खं सुकलत्तं किं दुग्गेझं खलो लोओ ॥६५४।। [का.प्र.१०.५३०] अत्र 'दैवगतिरेव विषमा' इत्यादिरन्यापोहः प्रतीयते । अपृष्टे यथा धेहि धर्मे धनधियं मा धनेषु कदाचन । सेवस्व सद्गुरुप्रज्ञां शिक्षा मा तु नितम्बिनीम् ॥६५५।। २० कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥६५६।। [रुद्रट ७.८१] यथा वा राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥६५७।। [रुद्रट ७.९७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy