SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३०२ १० १५ २० २५ यथा वा चित्रं चित्रं बत बत महच्चित्रमेतद् विचित्रं जातो दैवादुचितरचनासंविधाता विधाता । यन्निम्बानां परिणतफलस्फातिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः || ६४६ || [ का. प्र. १०.५३७] १४०) हेतौ कार्ये चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रियाश्च समुच्चयः ||२८|| कस्यचित् कार्यस्य एकस्मिन् हेतौ साधके सति हेत्वन्तराभिधानं कार्ये चैकस्मिन् प्रस्तुते कुतश्चिन्निमित्तात् कार्यान्तराभिधानं च समुच्चयः । युगपद्गुणौ च क्रिये च गुणक्रियाश्च समुच्चयः । बहुवचनं व्याप्त्यर्थम् । हेतौ हेत्वन्तरं यथा दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मया || ६४७|| [सुभाषितावलौ (११५६) भट्टशङ्कुकस्य ] अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति । तेषु सत्सु प्रियतमदूरस्थित्याद्युपात्तम् । यथा वामानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टचेदमुदीर्णं घनगर्जितम् || ६४८॥ कार्ये कार्यान्तरं यथा Jain Education International [काव्यानुशासनम् [ काव्यादर्श २.२९९] स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ||६४९ || [ ] अत्र त्वां सृजतेत्येकस्मिन् कार्ये प्रस्तुते मनोभवादीनां कार्यान्तराणामुपनिबन्धः । युगपद्गुणौ यथा विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥ ६५०|| [ रुद्रट ७.२८] For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy