SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३०० [काव्यानुशासनम् यथा वा सङ्केतकालमनसं विशं ज्ञात्वा विदग्धया । ___ हसनेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥६४१॥ [का.प्र.१०.५३२] अत्र कमलनिमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम् । १३६) सदृशदर्शनात् स्मरणं स्मृतिः ॥२४॥ पूर्वोपलब्धस्यार्थस्य तादृशदर्शनात् संस्कारोबोधे सति यत् स्मरणं सा स्मृतिः । यथा __ अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तयः । . अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः ॥६४२।। [स.कं.३/१३२] १३७) विपर्ययो भ्रान्तिः ॥२५॥ सदृशदर्शनाद् विपर्ययज्ञानं भ्रान्ति । यथा नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्धयाधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ॥६४३।। [स.कं.३.११५] न चैतद् रूपकं प्रथमा वातिशयोक्तिः । तत्र वस्तुतो भ्रमस्याभावात् । १३८) क्रियाफलाभावोऽनर्थश्च विषमम् ॥२६॥ न केवलं क्रियाफलाभावोऽर्थात् कर्तुर्यावदनर्थश्च भवति यत्र तद् विषमम् । यथा उत्कण्ठा परितापो रणरणको जागरस्तनोस्तनुता । फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥६४४।। [रुद्रट ७.५५] अत्र मृगलोचनादर्शने न केवलं सुखं न प्राप्तं, यावत्तद्विच्छेदे उत्कण्ठादिरनर्थः प्राप्तः । १३९) योग्यतया योग: समम् ॥२७॥ उत्कृष्टम् उत्कृष्टस्य निकृष्टं निकृष्टस्य योग्यमिति योग्यतया योग: समम् । यथा धातु: शिल्पातिशयनिकषस्थानमेषा मृगाक्षी देवो रूपेऽप्ययमनुपमे दत्तपत्रः स्मरस्य । जातं दैवादुचितमनयोः संगतं यत्तदस्मिन् शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥६४५।। २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy