SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ २९८ [काव्यानुशासनम् एकस्यानेकत्रानेकस्य वैकत्र क्रमेण वृत्तिः पर्यायः । समेन समस्योत्कृटेन निकृष्टस्य निकृष्टेनोत्कृष्टस्य वा व्यतिहारो विनिमयः । तावेतौ परिवृत्तिः । यथा जो तीऍ अहरराओ रत्तिं उव्वासिओ पिअयमेण । सो चिअ दीसइ गोसे सवत्तिनयणेसु संकंतो ॥६३५।। [सप्तशती १०६, गाथासप्तशती २.६] अत्रैकस्यानेकत्र वृत्तिः । रागस्य च वस्तुतो भेदेऽपि एकतयाध्यवसितत्वादेकत्वमविरुद्धम् । 'तद् गेहं नतभित्ति' (पृ. ५४) इति । अत्रानेकं गृहायेकत्र द्विजे वर्तते । विनिमयः समेन समस्य । यथा /आदाय कर्णकिसलयमियमस्मादत्र चरणमर्पयति । V उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ॥६३६॥ यो बलौ व्याप्तभूसीम्नि मखेन द्यां जिगीषति । - अभयं स्वर्गसद्मभ्यो दत्त्वा जग्राह खर्वताम् ॥६३७।। १५ २० अत्रोत्कृष्टेनाभयेन निकृष्टस्य खर्वत्वस्य । - तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना । येन जर्जरकलेवरव्ययात् क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥६३८॥ [स.कं. ३.८१] अत्र निकृष्टेनोत्कृष्टस्य । १३५) हेतोः साध्यावगमोऽनुमानम् ॥२३॥ अन्यथानुपपत्यैकलक्षणाद्धेतोः साध्यस्य जिज्ञासितस्यार्थस्य प्रतीतिर्यत्र वर्ण्यते तदनुमानम् । यथा सानुज्ञमागमिष्यनूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरसतिलकपङ्क्तिरियम् ॥६३९॥ [रुद्रट ७.५७] यथा वा निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥६४०।। [काव्यादर्श २.२१८] २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy