SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ २९६ १० १५ २० २५ अत्रातिशयोक्तिगर्भीकारेणानिर्णयान्तः । यथा वा यथा वा अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशोः नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रति भटाः ||६३१ || अत्र रूपगर्भीकारेण भेदकस्योक्तौ संशयः । १३३) प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपह्नुतिः ॥ २१॥ प्रकृतेन प्रकृतस्यापलाप एका अपह्नुतिः । अप्रकृतेन प्रकृतस्यापलापोऽन्या । तत्राद्या यथाशैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद् रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । Jain Education International हा शैत्यं तुहिनाचलस्य करयोरित्यचिवान् सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद् वः शिवः || ६३२|| [का.प्र.१०.४१९] अत्र गिरिजाकरस्पर्शकारणौ पुलकवेपथू सात्त्विकरूपौ प्रकृतौ प्रकृतेनैव तुहिनाचलशैत्येनापह्नुतौ । द्वितीया यथा [काव्यानुशासनम् नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥ ६३३॥ विलसदमरनारीनेत्रलीलाब्जषण्डान्यधिवसति सदा यः संयमाधः कृतानि । न तु ललितकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्याश्रियं वः ||६३४ ॥ [ [का.प्र.१०/५२१] For Private & Personal Use Only यथा वा - 'इदं ते केन' (पृ. २०० ) इति । एवमियं भङ्गयन्तरैरप्यूह्या । १३४) पर्यायविनिमयौ परिवृतिः ||२२|| [भामह ३.२२] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy