________________
२९४
[काव्यानुशासनम् __ अनोपमेयोत्कर्षः । इवादिपदविरहात् तु साम्यस्यानुक्तिः । अत्रैव 'विडम्बयति वक्त्रेण निश्येव स्मितमम्बुजम्' इति पाठपरिणामे उपमानापकर्षः ।
'आननेनाकलङ्केन जयन्तीन्दुं कलङ्कितम्' ॥६२४।। अत्र युगपदुत्कर्षापकर्षों ।
- अहो विडम्बयत्येषा वदनेन सरोरुहम् ॥६२५।। अत्रोत्कर्षापकर्षहेत्वोरनुक्तिः । साम्यं त्वाक्षेपात् सर्वत्र प्रतीयते । श्लेषव्यतिरेकस्तु सङ्करालङ्ककारविषय इति तत्रैवोदाहरिष्यते । १३१) विशेषस्य सामान्येन साधर्म्यवैधाभ्यां समर्थनमर्थान्तरन्यासः ॥१९॥
साधर्येण वैधhण वा विशेषो यत्र सामान्येन समर्थ्यते सोऽर्थान्तरस्येव न्यसनमर्थान्तरन्यासः । १० तत्र साधर्येण यथा
__ रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभिदध्यौ ।
वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः ॥६२६।।
वैधर्येण यथा
__ अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । - पीतभूरिसुरयापि न भेदे निर्वृतिर्हि मनसो मदहेतुः ॥६२७।।
[शिशुपालवध १९.२८] १३२) स्तुत्यै संशयोक्तिः ससन्देहः ॥२०॥
स्तुत्यै अलङ्कारान्तरगर्भीकारेण प्रस्तुतवस्तुवर्णनार्थं संशयस्योक्तिनिर्णयान्ताऽनिर्णयान्ता वा २० भेदकस्यानुक्तावुक्तौ वा ससन्देहः । यथा
सरोजपत्रे परिलीनषट्पदे विशालदृष्टेः स्विदमू विलोचने । शिरोरुहाः स्युनतपक्षसंततेविरेफवृन्दं नु निशब्दनिश्चलम् ॥६२८।।
अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद् विकचं नु पङ्कजम् । Vइति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥६२९।।
[किरात० ८.३५-३६] अत्र रूपकगीकारेण निर्णयान्तः संशयः । यथा वा
अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । V अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलयितुं नभः ॥६३०।।
[किरात० ५.१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org