________________
२९२
[काव्यानुशासनम्
१२९) वाक्यस्यानेकार्थता श्लेषः ॥१७॥ पदानामेकार्थत्वेऽपि यत्र वाक्यस्यानेकार्थता. स श्लेषः । यथा
दिशः प्रसादयनेष तेजोभिः प्रसृतैः सदा । - न कस्यानन्दमसमं विदधाति विभाकरः ॥६१९।।
अत्राभिधाया अनियन्त्रणाद् द्वावप्यर्कभूपौ वाच्यौ ।
१३०) उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः ॥१८॥
उपमेयस्य प्राकरणिकस्य यदाधिक्यमर्थादुपमानात् स व्यतिरेकः । स चोत्कर्षापकर्षहेत्वोः क्रमेण १० युगपद् वोपादाने त्रिविधायामुक्तौ युगपदनुपादानेऽनुक्तौ चैकविधायां चतुर्विधः । पुनश्च साम्यवाचकस्योक्तावनुक्तौ वाष्टभेदः । यथा
यस्यावर्जयतो नित्यं रिपूनप्युज्ज्वलैर्गुणैः । लक्ष्यते नेतरस्येव गाम्भीर्यैकनिधेः स्मयः ॥६२०॥
अत्र गाम्भीर्येकनिधित्वमुपमेयोत्कर्षहेतुरुक्तः ।
'तुच्छस्यान्यजनस्येव न स्मयो हन्त लक्ष्यते' । इत्यत्रैव एवं पाठे तुच्छत्वमुपमानापकर्षहेतुर्भवति ।।
असिमात्रसहायोऽयं प्रभूतारिपराभवे । - नैवान्यतुच्छजनवत् सगर्वोऽयं धृतेनिधिः ॥६२१॥
२०
अत्रोपमानोपमेयगतौ युगपदुत्कर्षापकर्षहेतू उक्तौ ।
शीर्णपर्णाम्बुवाताशकष्टेऽपि तपसि स्थिताम् । समुद्वहन्तीं नापूर्वं गर्वमन्यतपस्विवत् ॥६२२॥
[उद्भट २.९] अत्रोत्कर्षापकर्षहेत्वोर्द्वयोरप्यनुक्तिः । एवं साम्योक्तौ चत्वारो भेदाः । साम्यानुक्तौ यथा
- नवीनविभ्रमोद्भेदतरङ्गितगतिः सदा । मुखेन स्मितमुग्धेन जयत्येषा सरोरुहम् ॥६२३।।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org