SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ २९० [काव्यानुशासनम् अत्र निशाशशिनोरुपमेययोरुपोढरागादिश्लिष्टविशेषणबलानायकयोरुपमानयोः प्रतीतिः । १२७) स्वभावाख्यानं जातिः ॥१५॥ अर्थस्य तादवस्थ्यं स्वभावः । स च संस्थानस्थानकव्यापारादिस्तस्य वर्णनं जातिः । तत्र संस्थानं यथा पर्याणस्खलितस्फिजः करतलोत्क्षिप्तोत्तरीयाञ्चला वल्गद्भिस्तुरगैर्गता विधुरतामज्ञातवल्गाग्रहाः । नेपथ्यैः कथयन्ति भूपतनया दुःश्लिष्टसंपादितैनिर्लक्ष्यार्पितचक्षुषः परिचयोपात्तां श्रियं श्रोत्रियाः ॥६१४॥ स्थानकं यथा ___ स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । - ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥६१५।। [कुमार० ३.७०] व्यापारो यथा ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधना सह सस्मिता: कथा नयनोपान्तविलोकितं च तत ॥६१६।। [कुमार० ४.२३] १२८) स्तुतिनिन्दयोरन्यपरता व्याजस्तुतिः ॥१६॥ स्तुतेनिन्दापरता । निन्दायाश्च स्तुतिपरता यत्रोच्यते सा व्याजरूपा व्याजेन वा स्तुतिया॑जस्तुतिः । २० यथा दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे परमुपकृतं शेषं वक्तुं लिया वयमक्षमाः । भवतु सुकृतैरध्वन्यानामशोषजलो भवान् । इयमपि घनच्छाया भूयात्तवोपतटं शमी ॥६१७॥ किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहेगेहे विपणिषु तथा चत्वरे पानगोष्ठयामुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥६१८।। [सुभाषितावलौ (२५४४) मातङ्गदिवाकरस्य] ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy