________________
२८८
[काव्यानुशासनम् अत्र मानाशक्यत्वेन मानं व्याहन्यते । तथा
भवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्ताति नाङ्गानि प्रभवन्ति मे ॥६०८॥
[कुमार० ६.५९] अत्राङ्गानामतिविपुलतया परितोषामानं व्याहन्यते । यथा वा
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥६०९।।
___ [विद्धशालभञ्चिका १.२] अत्र दृशैव दाहो जीवनं च व्याहन्यते । यथा वा
धवलो सि जइ वि सुंदर तह वि तए मज्झं रंजिअं हिअयं । रायभरिए वि हिअए सुहय निहित्तो न रत्तो सि ॥६१०॥
[सप्तशतकम् ६६७; गाथा० ७.६५] अत्र धवलेन रञ्जनं रागभूतहृदयेनारञ्जनं च व्याहन्यते । एवं च विभावनाविशेषोक्त्यसंगतिविषमाधिक व्याघातातद्गुणाः पृथगलकारत्वेन न वाच्याः । विरोध एवान्तर्भावात् । उक्तिवैचित्र्यमात्राद् भेदे च १५ लक्षणकरणेऽलङ्कारानन्त्यप्रसङ्गः ।
१२५) सहार्थबलाद्धर्मस्यान्वयः सहोक्तिः ॥१३॥
धर्मस्य क्रियागुणलक्षणस्य सहार्थसामर्थ्याद् योऽन्वयः प्रतिपाद्यतेऽर्थादनेकेषु वस्तुषु सा सहभावस्योक्तिः सहोक्तिः । यथा
/रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनकाश्रुभिः । / निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥६११॥
__ [रघु० ३.६१] सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः । पाण्डुराश्च ममैवाङ्गैः सार्धं ताश्चन्द्रभूषणाः ॥६१२॥
[काव्यादर्श ३.३५२] २५ १२६) श्लिष्टविशेषणैरुपमानधी: समासोक्तिः ॥१४॥ श्लेषवद्भिरुपमेयविशेषणैर्योपमानस्य प्रतीतिः सा समासेन संक्षेपेणार्थद्वयकथनात् समासोक्तिः । यथा
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद् गलितं न लक्षितम् ॥६१३।।
___ [ध्वन्यालोके (पृ. १०९) पाणिनेः]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org