SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ २८६ [काव्यानुशासनम् एषु कारणासामग्रो फलाभावो व्याहन्यते । यथा वा सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनं परिणाहिनं स्तनभरं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥६०१॥ [अमरु० ३४] अत्रान्यदेशस्थेन कारणेनान्यदेशस्थकार्योत्पादो व्याहन्यते । यथा वा दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः ॥६०२॥ [कादम्बरी श्लो. १८] अत्र मलीमसेन शुक्लतरीकरणं व्याहन्यते । तथा- . · आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥६०३|| [रुद्रट ९.४७] अत्रानन्ददानं शरीरतापेन व्याहन्यते । शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना। अयं क्व च कुकूलाग्निकर्कशो मदनानलः ॥६०४॥ [नवसाहसाङ्कचरित १६.१८] अत्र मार्दवं कार्कश्येन व्याहन्यते । तथा विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥६०५॥ [शिशुपाल० १३.४०] अत्र हीनेन गुरुकार्यकरणं व्याहन्यते । तथा किं ददातु किमश्नातु भर्तव्यभरणाकुलः । उदारमतिराप्तेऽपि जगत्रितयमात्रके ॥६०६॥ १५ अत्राधिकेन स्वल्पकार्याकारणं व्याहन्यते । यथा वा अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥६०७॥ [काव्यादर्श २.२१९] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy