________________
२७६
[काव्यानुशासनम् प्रकृतस्यार्थस्य विशेषवर्णनेच्छया भेदस्य व्यत्ययोऽभेदाभिधानं यत्तदतिशयाभिधानादेकातिशयोक्तिः ।
यथा
सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ् ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् । उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाम् । अनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥५७१।।
[विद्धशालभञ्जिका १.३१] अत्र मुखचन्द्रयोर्भेदेऽप्यभेदः । यथा वा
अइ दिअर किन्न पेच्छसि आयासं किं मुहा पुलोएसि । जायाए बाहुमूलम्मि अद्धयंदाण परिवाडिं ॥५७२॥
[सप्तशतकम् ५७१; गाथासप्तशती ६.७०] अत्र नखार्धचन्द्राणाम् । अभेदस्य व्यत्ययो भेदो द्वितीया । यथा
अन्नं लडहत्तणयं अण्ण च्चिय कावि वत्तणच्छाया । सामा सामण्णपयावइस्स रेह च्चिय न होइ ॥५७३।।
अत्र लटभत्वादेरभिन्नस्यैव भेदेनाभिधानम् । योगस्य संबन्धस्य व्यत्ययोऽसम्बन्धस्तृतीया, यथा
मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥५७४।।
_ [काव्यादर्श २.२१५] अत्राभिसारिकाणां लक्षणक्रियायोगेऽपि ज्योत्स्नाबाहुल्योत्कर्षविवक्षयाऽयोग उक्तः । यथा वा
अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥५७५।।
[का.प्र.१०/५४७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org