________________
२७४
[काव्यानुशासनम् __अत्र पुरुषोत्तमशब्दस्यार्थद्वयवाचकत्वेऽपि सत्पुरुषचरितस्य प्रस्तुतत्वादभिधा एकत्र नियन्त्रितेति सत्पुरुष एव वाच्यो न विष्णुस्तच्चरितस्याप्रकृतत्वात् । तत्प्रतिपत्तिस्तु शब्दशक्तिमूलाद् ध्वनेरेव । यद्यपि च सत्पुरुषस्य विष्णोरिव विश्वोद्धरणे शक्तिर्नास्ति तथापि गुणवृत्त्या संभवतीति न दोषः ।
अन्योक्तिश्च क्वचित् स्तुतिरूपा । यथा-'नालस्य प्रसरः' (पृ. २७२) इति । क्वचिद् निन्दारूपा । यथा-'आदाय वारि' (पृ. २७२) इति । क्वचिदुभयरूपा । यथा
निष्कन्दामरविन्दिनी स्थपुटितोद्देशां स्थली पल्वले जम्बालाविलमम्बु कर्तुमितरा सूते वराकी सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रीणी पोत्रिणी ॥५६८॥
१५
अत्र पूर्वार्धे निन्दा, उत्तरार्धे तु स्तुतिः । क्वचिदनुभयरूपा यथा
इतो वसति केशवः पुरमितस्तदीयद्विषामितोऽपि शरणागताः शिखरिपक्षिणः शेरते । - इतोऽपि वडवानलः सह समस्तसंवर्तकैरहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥५६९।।।
[नीतिशतक ६७] अत्र निन्दा स्तुतिर्वा विस्मयोक्तावेवास्तमयत इत्यनुभयरूपा १२१) व्यङ्गयस्योक्तिः पर्यायोक्तम् ।।९।।
व्यङ्ग्यस्य प्रतीयमानस्यार्थस्याभिधानं यत् तत् पर्यायेण भङ्गयन्तरेण कथनं पर्यायोक्तम् । अत एव चान्योक्तेरस्य भेदः । न हि तत्र गम्यामानस्यार्थस्य भङ्गयन्तरेणाभिधानम्, अपि त्वप्रस्तुतद्वारेण तस्याक्षेप इति । यथा
शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः । " समस्यानेन धनुषा देशता धर्मदेशना ॥५७०॥
२०
अत्र 'भीष्मेण भार्गवो जित' इति व्यङ्ग्यस्य ‘देशिता धर्मदेशना' इत्यनया भङ्गया भणनम् । १२२) विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org