________________
२७०
[काव्यानुशासनम् अत्र मदादौ यत् प्राकरणिकतया विवक्ष्यते तदुपमेयं शेषाण्युपमानानि । न च क्रमिकत्वमुपमा रुणद्धीति वाच्यम्-.
राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसदृशः । अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ॥५५७।।
इत्यादौ क्रमिकत्वेऽप्युपमादर्शनात् । प्रकृतानां धर्मैक्यं यथा-'पाण्डु क्षामं वदनम्' इति । यथा वा
हंसाण सरेहिं सिरी सारिज्जाइ अह सराण हंसेहिं । - अण्णोण्णं चिअ एए अप्पाणं नवर गरुअंति ॥५५८॥
[सप्तशतकम् ९५३] अप्रकृतानां यथा
कुमुदकमलनीलनीरजालिललितविलासजुषोद्देशोः पुरः का । अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे त्वदाननस्य ॥५५९॥
१५
स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥५६०॥ [का.प्र.१०.४५९] इत्यादौ तु जातेरेव चमत्कारो न दीपकस्येति कारकदीपकं न लक्ष्यते ।
१२०) सामान्ये विशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः ॥८॥
सामान्ये प्रस्तुते तदन्यस्य विशेषस्य, विशेषे सामान्यस्य, कार्ये कारणस्य, कारणे कार्यस्य, सदृशे सदृश२० स्य चान्यस्याप्रस्तुतस्योक्तिरभिधानमन्योक्तिः । अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेप इत्यर्थः । यथा
ऐरावणं स्पृशति मन्त्रयते मरुद्भिवज्रं परामृशति पश्यति योधसार्थान् । मेरोस्तटानि विषमीकुरुते महेन्द्र
स्त्वच्छङ्कया निशि न याति नरेन्द्र निद्राम् ॥५६१।। [ २५ अत्र त्वय्युद्युक्ते न कश्चित् सुखं शेत इति सामान्ये प्रस्तुते विशेष उक्तः ।
अहो संसारनैपुण्यमहो दौरात्म्यमापदाम् । 'अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥५६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org