________________
२६६
[काव्यानुशासनम्
इदं सहजावयवं रूपकम् ।
गजो नग: कुथा मेघाः शृङ्खलाः पन्नगा अपि । .... यन्ता सिंहोऽभिशोभन्ते भ्रमरा हरिणास्तथा ॥५४६॥
५ इदमाहार्यावयवम् ।
अलिकुलकुन्तलभाराः सरसजिवदनाश्च चक्रवाककुचाः । राजन्ति हंसवसनाः सम्प्रति वापीविलासिन्यः ।।५४७।।
_[रुद्रट ८.४५] इदमुभयावयवमित्यादि-ते न लक्षिताः । उक्तलक्षणेनैव संगृहीतत्वाद् । एवंविधवैचित्र्यसहस्र१० संभवाच्चातिप्रसङ्गः स्यात् । यदाह
(३६) न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिनानं दर्शितं धीररैनुक्तमनुमीयतामिति ॥
काव्यादर्श २.९६] ११८) इष्टार्थसिद्धियै दृष्टान्तो निदर्शनम् ॥६॥ १५ इष्टस्य सामान्यरूपस्य विशेषरूपस्य वा प्राकरणिकस्यार्थस्य सिद्धयै यो दृष्टान्तः स निदर्श्यते ।
प्राकरणिकोऽर्थोऽत्रेति निदर्शनम् ।
यथा
होइ न गुणाणुराओ जडाण णवरं पसिद्धिसरणाण । किर पण्हुवइ ससिमणी चंदे ण पियामुहे दिढे ॥५४८॥
२०
यथा वा
उपरि घनं घनपटलं दूरे दयिता तदेतदापतितम् । हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि ॥५४९॥
[स.कं. - ३.८७]
यथा वा
देवीभावं गमिता परिवारपदं कथं भजत्येषा । न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥५५०।।
[रत्नावली० ] [का.प्र.१०.४५४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org