________________
२५२
[काव्यानुशासनम् वाक्ये यथा
क्षणं कामज्वरोच्छित्त्यै भूयः सन्तापवृद्धये । वियोगिनामभूच्चान्द्री चन्द्रिका चन्दनं यथा ॥५०४।।
[उद्भट: काव्यालङ्कार० १.१८] परार्थाभिधानं वृत्तिः । सा च यद्यपि समास-तद्धित-नामधातुभेदेन त्रिविधा लुप्तायामुदाहरिष्यते तथापीह समासतद्धितयोरेव संभवति । यथा
नेत्ररिवोत्पलैः पद्यैर्मुखैरिव सरःश्रियः । तरुण्य इव भान्ति स्म चक्रवाकैः स्तनैरिव ॥५०५॥
[उद्भट १.१९] १० अत्रेवेन नित्यसमासः ।
गाम्भीर्यमहिमा तस्य सत्यं गङ्गाभुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ।।५०६॥
. [का.प्र.१०. श्लो. ३९७] अत्रेवार्थे तुल्यार्थे च वतिस्तद्धितः । ११५) एकद्वित्रिलोपे लुप्ता ॥३॥ उपमानादीनां मध्यादेकस्य द्वयोस्त्रयाणां वा यथासंभवे लोपे लुप्तोपमा । सा च वाक्ये वृत्तौ च । एकलोपे वाक्यगता यथा
. अनाधिव्याधिसंबाधममन्दानन्दकारणम् ।
न किञ्चिदन्यदस्तीह समाधेः सदृशं सखे ॥५०७।।
२५
अत्र यद्यपि सदृशशब्दाभिधेयस्योत्कृष्टतरगुणत्वेनाप्राप्यताप्रतिपादनादुपमानत्वं बलदायातं, तथापि तस्य साक्षादनिर्देशादुपमानस्य लोपः । तथा
धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥५०८॥
[का.प्र.१०.३९८] अत्राह्लादकत्वादिधर्मलोप: । उपमेयोपमावाचकयोस्तु वाक्ये लोपो न संभवति । द्विलोपे यथा
ढुंढुल्लितुं मरीहसि कंटयकलिआई केअइवणाई । - मालइकुसुमेण समं भमर भमंतो न पाविहिसि ॥५०९।।
[का.प्र.१०.४०८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org